SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः ३५ सहकार्यभ्युपगम्यते, सर्वभावानामेव तत्सहकारित्वप्रसङ्गः, तद्विशेषाकरणेनाविशेषाद, इति व्यर्था सहकारिकल्पना । अथोच्यते-एवंभूत एव तस्य वस्तुनः स्वभावः, येनाविशेषकारकमपि प्रतिनियतमेव सहकारिणमपेक्ष्य कार्यं जनयति, इति । एतदपि मनोरथमात्रम्, विकल्पानुपपत्तेः; तद्धि यदाभीष्टसहकारिसन्निधौ कार्यं जनयति, तदाऽस्यानन्तरोदितसहकार्यपेक्षालक्षणः स्वभावो व्यावर्त्तते ? न वा ? इति वक्तव्यम्-यदि व्यावर्त्तते, अनित्यत्वप्रसङ्गः; स्वभावव्यावृत्तौ स्वभाववतोऽपि तदव्यतिरेकेण तद्वदेव निवृत्तेः । अथ न व्यावर्त्तते, कार्याजननप्रसङ्गः, तत्स्वभावानिवृत्तेः, पूर्ववत्; तथाहि-य एव तस्य कार्याजननावस्थायां स्वभावः, जननावस्थायामपि स एव, इति कथं जनयति ? सर्वदा वा जननप्रसङ्गः; इत्येवं तावदेकान्तनित्यपक्षे १. आलोकादिकम् । २. विज्ञानादि । ३. वस्तुनः । ४. अकिञ्चित्करसहकारि । ५. अकिञ्चित्करसहकार्यपेक्षालक्षणस्वभावानिवृत्तेः । ६. दृष्टान्तः । ७. सर्वदा स्व-स्वभावानिवृत्तेः । ८. कार्यम्( शेषः)। ९. पूर्वमपि । १०. स्वभावाभेदात् ।। १० For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy