SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ अनेकान्तवादप्रवेश: यद्यर्थान्तरभूतः, तस्य किमायातम् ? 'स तस्य विशेषकारकः' इति चेत् ? न, अनवस्थाप्रसङ्गात्; तथाहि-स विशेषस्ततो भिन्नः ? अभिन्नो वा ? तदेवावर्त्तते, इत्यनवस्था, (चक्रकं वा) । अथानान्तरभूतः, स विद्यमान: ? अविद्यमानो वा ? यदि विद्यमानः, कथं क्रियते ? करणे वाऽनवस्थाप्रसङ्गः । अथाविद्यमानः, व्याहतमेतत्, स ततोऽनर्थान्तरभूतोऽविद्यमानश्चेति, करणे वाऽनित्यतापत्तिरिति; तथाहि-तस्मिन् क्रियमाणे पदार्थ एव कृतः स्यात्, तदव्यतिरिक्तत्वातस्य । अथ माभूदेष दोषः, 'न क्रियते' इत्याश्रीयते, न तर्हि स तस्य सहकारी, अकिञ्चित्करत्वाद्, भावे वाऽतिप्रसङ्गः, इति; तथाहियदि कञ्चन विशेषमकुर्वन्नपि स तस्य १. वस्तुनः । २. तत्तदवस्थमेव । ३. विशेषोऽर्थान्तरभूतः । ४. वस्तुनः । ५. मूलविशेषकृतः । ६. वस्तुनः । ७. सहकारिणा विशेषः क्रियते । ८. विद्यमानत्वाविशेषेण भूयो भूयः करणम्, इत्यनवस्था । ९. अविद्यमानाव्यतिरिक्तो हि अविद्यमान एव । १०. करणे वाऽव्यतिरिक्त स्याविद्यमानस्यानित्यतापत्तिर्वस्तुनः, तथाहि-तस्मिन्नव्यतिरिक्ते ऽविद्यमाने विशेषे क्रियमाणे पदार्थ एव कृतः स्यात् । ११. पदार्थस्य। १२. विशेषस्य । १३. सहकारिणा विशेषः । For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy