SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः संस्कारस्यापि स्वलक्षणेतररूपानतिक्रमात्; स्वलक्षणरूपत्वे स एव दोषः । सामान्यलक्षणरूपत्वे तु ततस्तदुदय एव कथम् ? इति वाच्यम् । स्यादेतद्,-नहि कल्पनाऽस्वलक्षणमेव, तस्या अपि स्वसंवित्तौ स्वलक्षणत्वात्; उक्तं च-'कल्पनाऽपि स्वसंवित्ताविष्टा, नार्थे, विकल्पनात्' इति । एतदप्ययुक्तम्, अर्थविकल्पाकारव्यतिरेकेण तत्स्वसंवित्त्यसिद्धेः; सिद्धौ वा, कल्पनाऽयोगात् । अतीतकालानुभूतसंस्कारस्तथापरिपच्यमानः स्वलक्षणानुभवजनितसंस्कारोपपादितविशेषो हेतुः, इति चेत् ? न, तस्य स्वलक्षणानुभवजनितसंस्काराद्विशेषः, असिद्धेः । असिद्धिश्च तत्त्वतस्ततोऽनुपकारात्; तथाहि-स तस्य विकल्पाहितसंस्कारविशेषस्यानुत्पन्नस्योत्पन्नस्य १. स्वलक्षणसंस्कारस्य क्षणक्षयित्वेन *तद्भावकाले च तदसत्त्वादित्ययम् । २.सामान्यरूपसंस्कारक्षणिकत्वप्रतिभासेऽप्यवस्तुत्वात्कुतोऽस्माद्विकल्पज्ञानस्योदयः ? । ३. सामान्यस्यार्थक्रियाकारित्वायोगात् । ४. कल्पना । ५. विकल्पोपादानकारणभूतस्यातीतकालविकल्पजनितसंस्कारस्य । ६. स्वलक्षणानुभवजनितसंस्कारः । ७. विकल्पेन घटोऽयमित्येवंरूपेणातीतकाले विशेषो यः संस्कारविशेषः, तस्य । For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy