SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः एतदप्ययुक्तम्, विहितोत्तरत्वात्, 'तत्स्वरुपसत्त्वमेव पररूपासत्त्वम्' इति निर्लोठितम् । किञ्च-एकान्तपर्यायनयमतानुसारिपक्षे कल्पनाऽयोगात्; तथाहि-सा वस्तुनि समुत्पन्ने वा स्याद् ? अनुत्पन्ने वा ? न तावदनुत्पन्ने, तस्यैवासत्त्वात्; उत्पन्नेऽपि च गृहीते वा स्याद् ? अगृहीते वा ? न तावदगृहीते, अतिप्रसङ्गात्; गृहीतेऽपि च तद्ग्राहकज्ञानस्याविकल्पकत्वात्, विकल्पज्ञानस्य चातद्विषयत्वात्, तद्भावकाले च तदसत्त्वात् । तत्रैव कल्पना, इति चेत् ? न, विकल्पानुपपत्तेः; तथाहितत्राप्युत्पन्ने वा स्याद् ? अनुत्पन्ने वा ? नानुत्पन्ने, असत्त्वात्; नाप्युत्पन्ने, उत्पत्त्यनन्तरापवर्गित्वात् । विकल्पनारूपमेवोत्पद्यते, इति चेत् ? न, तस्य हेत्वयोगात् । हेत्वयोगश्च स्वलक्षणादनुत्पत्तेः । स्वलक्षणानुभवाहितसंस्कारात् तज्जन्म, इति चेत् ? न, ४ 'इदं घटादिकमुपलम्भे' वा इति विकल्पिकाया बुद्धेः समुद्भवः स्यात्' । १. वस्तुनि । २. उत्पन्नवस्तु । ३. उत्पन्नवस्त्वविषयत्वात्। वर्तमानकालभाविस्वलक्षणानुभवजसंस्कारात् । ४. विकल्पज्ञान । ५. उत्पन्नवस्तु । ६. ज्ञाने एव, न तु बाह्येऽर्थे विषये । ७. ज्ञानेऽपि । ८. विनाशित्वात् । For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy