SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। रामः-वत्स, साधु दृष्टम् । आलवालवलयेषु भूरुहां मांसलस्तिमितमन्तरान्तरा । केरलीचिकुरभङ्गिभङ्गुरं सारणीषु पुनरम्बु दृश्यते ॥ २५ ॥ तदेहि । भगवती कौशिकीमालोकयन्तौ मुहूर्तमात्रमात्मानं पुनीवहे । (परिक्रम्यावलोक्य च ।) क्वचित्सांकामिकोऽपि विशेषो नैसर्गिकमतिशेते । तथा हि। जडवच्छस्वादुप्रकृतिरुपहूतेन्द्रियगणो गुणो यद्यप्यासामयमयुतसिद्धो विजयते । तथाप्युत्कर्षाय स्फुरति सरितामाश्रमसदा मिदानी वानीरद्रुमकुसुमजन्मा परिमलः ॥ २६ ॥ लक्ष्मणः-आर्य, पुरस्तादनुकौशिकीतीरमालोकय । त्रिमा सरित्' इत्यमरः । रामोऽतिरम्यत्वेन लक्ष्मणवचनमनुवदति-आलवालेति । अम्बु पानीयं सारणीषु स्वल्पनदीषु । यद्वा सारण्यो जलप्रवाहिकास्तासु । पुनदृश्यते । कीदृशम् । केरली केरलदेशजाता स्त्री तस्याश्चिकुरभङ्गिः केशकुटिलता तद्वद्भङ्गुरं स्वतः कुटिलम् । केरलदेशस्त्रीणां चिकुराः कुटिला भवन्तीति प्रसिद्धिः। भूरुहां वृक्षाणामालवालवलयेषु वृक्षमूलजलधारकसमूहेष्वन्तरान्तरा मध्ये मध्ये मांसलं प्रचुरम् । सिध्मादित्वाच् । स्तिमितं निश्चलं चेति कर्मधारयः। 'स्वल्पनद्यां च सारणी' इति विश्वः । 'आलवाल: स्थितो मूले वृक्षस्य जलधारके' इति च । कौशिकी नदीभेदम् । पुनीवहे पवित्रीकुर्वः । सांक्रामिक आगन्तुकः । नैसर्गिकं स्वाभाविकम् । उभयोरप्यध्यात्मादिस्वाहा। अतिशेतेऽभिभवति । सांक्रामिण नैसर्गिकस्याभिभवोपपादनार्थ नैसर्गिक रूपमाह-जडेति । आसां सरितां नदीनामयुत सिद्धः पृथक्सिद्धः । 'यु मिश्रणे'। युतं मिलितं न युतमयुतम् । यद्वायुतसिद्धः स्वाभाविको गुणो यद्यपि विजयते । प्रत्यक्षविषयीभवतीत्यर्थः । कीदृशः । जडखच्छस्वादुप्रकृतिभूतः खभावभूतो यस्य गुणस्य स तथा। तेन जलत्वं स्वच्छत्वं खादुत्वं च लभ्यते। अत एवोपहूत आहूतः। आकृष्ट इति यावत् । इन्द्रियगणो येन स तथा। इदानीमुपपाद्यमाह-तथापि वेतसवृक्षपुष्पजन्मा परिमलो गन्ध आश्रमसदामाश्रमाश्रितानामुत्कर्षाय प्रकर्षाय स्फुरति । आश्रमसदामिति 'सत्सूद्विष-' इति विप् । 'शीतवानीरवञ्जुलाः' इत्यमरः । 'विमर्दोत्थे परिमलो गन्धमात्रेऽपि दृश्यते' इति विश्वः । अनु समीपे । अवलोकनक्रियापेक्षसमुदायवाक्यार्थस्यात्र १. 'दृष्टम् । अहो' इति पाठः. २. 'कौशिकीभगवतीमवलोकयन्तौ मुहूर्तम्' इति पाठः. ३. 'पुनीमहे' इति पाठः. ४. 'नैसर्गिकमधिकम्' इति पाठः. ५. 'पश्य' इति पाठः. ६. 'श्रयति' इति पाठः. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy