SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ अङ्कः ] अनर्घराघवम् । लक्ष्मण:-अहो पशूनामप्यपत्यवात्सल्यम् । अहो शिशूनामपि सत्कर्मताच्छील्यम् । रामः- (अन्यतोऽवलोक्य ।) मुनिविनियोगविलूनप्ररूढमृदुशाद्वलानि बहीषि । गोकर्णतर्णकोऽयं त!त्युपकण्ठकच्छेषु ॥ २३ ॥ (ईंति परिकामतः ।) लक्ष्मण:-आर्य, इयमेभिरालवालैः पदे पदे ग्रन्थिलासु कुल्यासु । तीव्रतमा जलवेणिः प्रवहति विश्रम्य विश्रम्य ॥ २४ ॥ लीवलयत्वमुचितम् । 'समन्ततस्तु परितः सर्वतो विष्वगिलपि' इत्यमरः । वात्सल्यं प्रेमा। ताच्छील्यं तत्स्वभावत्वम् । मृगाणामपि द्वेषिविषयकात्यन्तनिर्भरत्वं दर्शयन्वैचित्र्यान्तरमाह-मुनीति । अयं गोकर्णतर्णको हरिणविशेषबालक उपकण्ठकच्छेषु कच्छसमीपेषु वहींषि कुशांस्तर्णोति खादति । 'तृणु अदने' उभयपदी । पक्षे गुणः । उपकण्ठः समीपम् । अतिगर्तजलबहुलं स्थानं कच्छः। नदीतटं वा । 'जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः' इत्यमरः । 'कच्छो नदीतटेऽनूपे' इति विश्वः। कीदृशानि । मुनिभिविनियोगार्थ क्रियानिमित्तं विलूनान्युत्पाटितानि ततः प्ररूढान्युत्पन्नानि शादलानि हरितानि येषां तादृशानि । यद्वा मुनिविनियोगविलूनानि, प्ररूढमृदुशालानि चति कर्मधारयः । 'शादो जम्बालशप्पयोः' इत्यमरः । 'शष्पं बालतृणम्' इति च । शादोऽस्यास्तीति 'नडशादा द्डुलच्'। 'शाद्वल: शादहरिते' इत्यमरः। न च शादुलशब्देन बर्हिःशव्देन च तृणविशेषाभिधानात्पौनरुक्त्यापत्तिरिति वाच्यम् । शादुलशब्दस्यात्र लक्षणया हरितमात्रवृत्तित्वात् । 'गोकर्णोऽश्वतरेऽपि स्यान्मृगसर्प विशेषयोः' इति मेदिनीकरः। 'तर्णको बालकः सभौ' इत्यमरः । चेतनानां प्रशान्तस्वभावत्वमुक्त्वाचेतनानामप्याहइयमिति । इयं तीव्रतमातिवेगवती जलवणिर्वेण्याकारं जलम् । सूक्ष्मत्वात्कुटिलत्वाच वेण्या रूपणम् । यद्वा जलपूर्णा वेणि: प्रवाहो जलवेणिः । 'नद्यादेरन्तरे वेणिः केशस्यापि च बन्धने' इति विश्वः। कुल्यासु कृत्रिमनदीपु विश्रम्य विधम्य पुनः पुनर्विश्राम कृत्वा प्रवहति निःसरति । किंभूतासु । एभिरालवालक्षमूले जलधारकैः ‘थल' इति प्रसिद्धः पदे पदे स्थाने स्थान सकलतरूणां जलप्राप्त्यर्थे ग्रन्थिलामु पर्ववतीषु । विषमाखित्यर्थः । सिध्मादित्वालच् । प्रबहतीत्यत्र 'प्राद्वहः' इति परस्मैपदम् । 'कुल्या स्यात्कृ १. 'लक्ष्मण:-(दृष्ट्वा)' इति पाठः. २. 'प्रसव' इति पाठः. ३. 'रामः' इति केयुचित्पुस्तकेषु नास्ति. ४. 'इत्युभौ' इति पाटः. ५. 'तीव्रतरा जलवेणी' इति पाठः, For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy