SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४ काव्यमाला। शुन शेफ:-(विहस्य ।) पुरैव किलायमाञ्जनेयो भगवतः सहस्रकिरणाव्याकरणविद्यामधीयानस्तदात्मजन्मनो वानरयोनेः सुग्रीवस्य साहायकमभिप्रायज्ञो गुरुदक्षिणीचकार । पशुमेदः-(सानन्दम् ।) हुं । ता उचितं जेव्व गुरुपुत्तो सबह्मचारी वा अणुवट्टीअदि । तदो तदो। शुनाशेफः-ततश्चाहिभयोपजापजर्जरं सुहृद्हमुपश्रुत्य राक्षसराजः खरदूपणत्रिशिरोभिर्महामात्यैरधिष्ठितमात्मबलैकदेशं सिन्धोरुदीचि कूले वालिप्रतिग्रहाय प्राहिणोत् । पशुमेदः-कधं अपरिहीणमित्तधम्मो वि सो रक्खसो । निन्दम् । विचिकित्सायाः प्रयोजक रूपकमाह-अजेति । 'आर्य, यथा तथा भवतु । स्वामी खाम्येव । तं परित्यज्य तत्सदृशस्तादृशस्य महानुभावस्य प्रतिकूलपरिग्रहः' [इति च्छाया । इह प्रतिकूलो वालिवैरी सुग्रीवस्तस्य परिग्रहः स्वीकारः । 'प्रतिग्रहः' वा पाठः । तत्राप्ययमेवार्थः । वालिनोऽसन्मार्गप्रपनत्वादेव परं न सुग्रीवसपक्षत्वम् , किं तु प्रकारान्तरेण तत्त्वमिति तदुपपादयति-पुरैवेति । किलागमे। अयमाञ्जनेयोऽञ्जनीपुत्रो हनुमान्सहस्रकिरणादादित्याद्व्याकरणविद्यामधीयानः पठंस्तदात्मजन्मनः सूर्यपुत्रस्य सुग्रीवस्य साहायकं साहाय्यम् । द्वितीयत्वमित्यर्थः । गुरुदक्षिणीचकार गुरुदक्षिणां कृतवान् । वानरयोनेरिति योनिराकरः । 'योनिः स्यादाकरे हेतौ' इति विश्वः । नन्वादित्यस्वरसं विनैव किं तथा कृतवानियत आह-अभिप्रायशः । तस्येति शेषः । आशयवेत्तेत्यर्थः । साहायकमिति सहायशब्दात् 'योपधाद्गुरूपोत्तमागुञ्' इति भावे बुञ् । हुमित्यादि । 'हुं। तदुचितमेव गुरुपुत्रः सब्रह्मचारी वानुवर्यते । ततस्ततः' [इति च्छाया । इह हुं वितर्के । 'हुँ वितर्के परिप्रश्ने' इति विश्वः । 'हुं तर्के स्यात्' इत्यमरोऽपि । सब्रह्मचारी एकब्रह्मव्रताचारः । सहाध्येता वा । 'एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः' इत्यमरः । अहिभयं स्वपक्षभयम् , उपजापो भेदः, ताभ्यां जर्जरं जीर्णम् । 'महीभुजामहिभयं खपक्षप्रभवं भयम्' इत्यमरः । 'समौ भेदोपजापौ' इति च । सुहृद्हं वालिवेश्म । राक्षसराजो रावणः । उदीचि उत्तरे । 'उद ईत्' इतीत्वेऽञ्चते रूपम् । वालिप्रतिग्रहाय वालिरक्षायै । यत्तु क्वचिद्हणायेति व्याख्यानं तन्मन्दम् । 'कथं अपरिहीणमित्तधम्मो वि सो रक्खसो' इत्यग्रिमग्रन्थविरोधात् । प्राहिणोत्प्रहितवान् । कधमित्यादि । 'कथमपरिहीनमित्रधर्मोऽपि स राक्षसः' [इति च्छाया ।] १. 'सखे पुरैवाञ्जनेयो' इति पाठः. २. 'व्याकरणम्' इति पाठः. ३. 'सानन्दम्' इति पुस्तकान्तरे नास्ति. ४. 'सुहृत्कुलम्' इति पाठः. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy