SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ अङ्कः] अनर्धराघवम् । तथा हि। उक्षा रथो भूषणमस्थिमाला भस्माङ्गरागो गजचर्म वासः । एकालयस्थेऽपि धनाधिनाथे सख्यौ दशेयं त्रिपुरान्तकस्य ।। ७ ।। पशुमेदः-(सहासम् ।) अहो ठेरभल्लूअस्स मन्तोवण्णासो परिहासकुसलदा अ। तदो तदो। शुन शेफ:-ततश्च तद्वचनं जराप्रलपितमित्युपहसति हरीश्वर उपांशु तदनुमत्या महामात्यस्य केसरिणः पुत्रो हनुमान्कुमारं सुग्रीवमादाय ऋष्यमूकं नाम पर्वतदुर्गमनुप्रविष्टः । पशुमेदः-(साकूतम् ।) अज, जो सो मारुदी तेदामल्लो त्ति सुणीअदि। शुन शेफ:-~-अथ किम् । पशुमेदः-(सविचिकित्सम् ।) अज, जधा तधा भोदु । सामी सामी जेव । तं परिच्चइअ णसरिसो तारिसस्स महाणुभाअस्स पडिऊलपरिग्गहो । पुरान्तकस्य महादेवस्येयं दारिद्यद्योतिका दशावस्था । दशाखरूपमाह-उक्षा वृषः स एव रथः स्यन्दनम् । वाहनमिति यावत् । अस्थिमाला भूषणमलंकरणम् । भस्माङ्गरागोऽङ्गानुलेपनम् । गजचर्म वासो वस्त्रम् । तथा च पुलस्त्यापलेन समं मैत्रं न योग्यमिति भावः । 'दशावस्थादीपवोः ' इति विश्वः । 'उक्षा भद्रो बलीवर्दः' इत्यमरः । त्रिपुरान्तकत्वेन योग्यतोक्ता-अहो इत्यादि । 'अहो स्थविरभल्लूकस्य मन्त्रोपन्यासः परिहासकुशलता च । ततस्ततः' [इति च्छाया । इह ठेरः स्थविरः । 'राजन्मायाविनी राक्षसजातिः' इति मन्त्रस्य मन्त्रणाया उपन्यास उद्गारः । उक्षा रथ इत्यादि परिहासकुशलता। जराप्रलपितं वृद्धत्वेन निरर्थभाषितम् । 'प्रलापोऽनर्थकं वचः' इत्यमरः । हरीश्वरे वानरराजे वालिनि । उपांशु एकान्ते । 'उपांशु उपभेदे स्यादुपांशु विजनेऽव्ययम्' इति विश्वः । 'रहश्चोपांशु चालिङ्गे' इत्यमरश्च । तदनुमत्या जाम्बवत्संमत्या । इह 'हनुमान्केसरिणः क्षेत्रजः पुत्रोऽअनायां वायुना जातः' इति पुराणम् । 'हनूमान्नुमानपि' इति शब्दभेदः । साकूतं साभिप्रायम् । अज्जेति । 'आर्य, योऽसौ मारुतिस्त्रेतामल्ल इति श्रूयते' [इति च्छाया ।] इह त्रेता द्वितीययुगं तत्र मल्लो वीरः श्रूयते । सोऽयमिति शेषः । यद्वा त्रेतामल्लोऽस्यैव नाम । तदुक्तम्-'आञ्जनेयो हनूमान्स्यात्रेतामल्लश्च मारुतिः' इति । 'अथ किं स्वीक्रियार्थकम्' इति भरतः । सविचिकित्सं स १. 'केसरिनाम्नः' इति पाठः. २. 'आदाय सुग्रीवम्' इति पाठः. ३. 'पर्वतं सदुर्गम्' इति पाट:. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy