SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ अङ्क: अनर्घराघवम् । २८७ देवः किं स्तुमहे महेश्वरशिरोनेपथ्यरत्नाङ्कुरः क्षीरोदार्णवशुक्तिमौक्तिकमयं दाक्षायणीनायकः ॥ ६७ ॥ सीता--(हसन्ती ।) अज्जउत्त, समाणकुलसीलरूवजोव्वणाणं वि सवत्तीणं सीसे दिण्णो धण्णाए दक्खगोत्तधवलाए रोहिणीए चलणो । जेण रोहिणीरमणो जेव्व भअवं चन्दो सुणीअदि । रामः--(विहस्य ।) आं जानकि, प्रियोपभोगतुल्येऽपि ताराणां सप्तविंशतेः । धत्ते किमपि सौभाग्यमञ्जरीमिह रोहिणी ॥ ६८॥ (स्पर्श च रूपयन् ।) दलितकुमुदकोषोदञ्चदूप्मोपचार क्षणशमितचकोरीचन्द्रिकापानजाड्याः । अभिसृमरमृगाक्षीमूकदूत्यः खदन्ते शशिमणिमकरन्दोत्कन्दलाश्चन्द्रभासः ॥ ६९॥ नशाला वा । 'सतर' इति यस्य प्रसिद्धिः। 'सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च' इत्यमरः । उदधेः समुद्रस्य मेदो मांसवृद्धिस्तत्कारकः । 'नित्यं समासे-' इति सत्वम् । रसायनं सदा क्रियमाणपुष्टिप्रदमौषधम् । पीयूषस्य गजा गृहं तत्पतिः । यद्यपि 'गञ्जा तु मदिरागृहम्' इत्यमराद्गजाशब्दो मदिरागृहे रूढस्तथापि लक्षणया योग्यतया वा गृहमात्रपरोऽत्र । यद्वा गा खनिः । 'गजा खनौं सुरागेहे' इति मेदिनीकरः । नेपथ्यं प्रसाधनम् । 'आकल्पवेषौ नेपथ्यम्' इत्यमरः । क्षीरोदार्णव एव शुक्तिः । रूपकं शुभ्रलसाम्यात् । तत्र मौक्तिकं मुक्ताफलम् । अत्रार्णवस्य शुक्तित्ववर्णनं नानुचितम् । उक्तं च दण्डिना-'न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमादूषणायालं यत्रोद्वेगो न धीमताम् ॥' यथा—'हंसीव धवलश्चन्द्रः सरसीवामलं नभः । भर्तृभक्तो भटः श्वेव खद्योतो भाति भानुवत् ॥' इति । दाक्षायण्यः सप्तविंशतितारकाः। 'दाक्षायण्योऽश्विनीलादि ताराः' इत्यमरः । अज्जउत्तेति । 'आर्यपुत्र, समानकुलशीलरूपयौवनानामपि सपत्नीनां शीर्ष दत्तो धन्यया दक्षगोत्रधवलया रोहिण्या चरणः । येन रोहिणीरमण एव भगवांश्चन्द्रः श्रूयते' [इति च्छाया।] इह शीर्षे शिरसि । दक्षो नाम मुनिः। धवला निर्मला सुन्दरी वा । 'धवल: सुन्दरेऽमले' इति विश्वः । 'पदनिश्चरणोऽस्त्रियाम्' इत्यमरः । येन हेतुना । सप्तविंशतेरित्यत्र 'विंशत्याद्याः सदैकत्वे संख्याः संख्येयसंख्ययोः' इति वचनादेकत्वम् । मञ्जरी प्रकाण्डः । 'सौरभ्यम्' इति पाटे मनोहरत्वं ख्याति वेत्यर्थः। रूपयन्गृह्णन् । 'रूप निदर्शने' । णिच् । दलितं विकासितम् । कोषो मध्यम् । उदश्चदुद्गच्छत् । उपचारः समूहः । चकोरीणां चन्द्रिकापानेन यज्जाज्यं शीतलत्वं तद्विकसि १. 'सौभाग्यैः सौरभ्यमिह'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy