SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८६ सुग्रीवः -- www.kobatirth.org काव्यमाला | Acharya Shri Kailassagarsuri Gyanmandir रोमन्थप्रचलौष्ठसंपुटसुखासीनश्चिरं कौतुकादृष्ट्वा सिद्धवधूभिरङ्कहरिणस्तालैरथोत्रासितः । मा भाङ्गीदनुमासनव्यघटनानिःसंधिबन्धं वपुः शीतांशोः क्षुभितस्तु शल्यवदयं दुःखाय वर्तिप्यते ॥ ६४ ॥ अपि च । एतस्य कलामेकाममृतमयूखस्य पार्वतीरमणः । वर्णावलिमिव वहति प्रतिमासं घट्यमानस्य ॥ ६५ ॥ राम: - ( सादरं प्रणम्य ।) त्वं गीर्वाणगणाय नित्यममृतश्राद्धं भवद्दीधितिधात्रीकर्म च वीरुधां विदधती धते जगज्जीवितम् । सोम त्वामनिधाय मूर्धनि भवेत्कः कालकूटं गिल न्कण्ठे तच्छलकालपाशवलयालीढोऽपि मृत्युंजयः ॥ ६६ ॥ ( सीतां प्रति ।) नेत्राणां मधुपर्कसमुदधेः सर्वाङ्गमेदस्करः शृङ्गारस्य रसायनं मखभुजां पीयूषगञ्जापतिः । रोमन्थेति । अयमङ्कहरिणः शीतांशोः शरीरं मा भाङ्गीत् मा भग्नं कुर्यात् । तु पुनः क्षुभितश्चलितः सन् शल्यवद्दुःखाय वर्तिप्यते । भङ्गहेतुविशेषणमाह-- रोमन्थेत्यादि । तालैर्हस्तद्वयसंयोगजन्यशब्दभेदैः । वपुः कीदृशम् । अनुमासं प्रतिमासं या नव्यघटना नूतनघटनं तया निःसंधि संधिशून्यं वन्धो यत्र तादृशम् । वर्णावलिमिव । यावतो वारानयं घटितस्तावदक्षरपङ्क्तिमिवेत्यर्थः । घट्यमानस्य क्रियमाणस्य । त्वमिति । हे सोम, त्वं देवगणायामृतश्राद्धममृतरूपं हव्यम् । असीति शेषः । 'हव्ये कव्ये भवेच्छ्राद्धम्' इति विश्वः । भवतो दीधितिः किरणो जगतां जीवितं प्राणान्धत्ते । कीदृशी । वीरुधां लतानां धात्री उपमाता तत्कर्म परिपालनस्वरूपं विदधती कुर्वाणा | जलेन चन्द्रतेजसा च वृक्षा जीवन्तीति ध्वनिः । त्वां मूर्धनि मस्तके अनिधायावृत्वा कालकूटं विषभेदं गिलन्सन् कण्ठे गले तच्छलेन कालकूटव्याजेन यमपाशवलयेन यमरजुवेष्टनेनालीड आस्वादितोऽपि मृत्युंजयो मृत्योर्जेता को भवेत् । अपि तु न कोऽपि जीवेदित्यर्थः । तथा च भगवानेव शिवस्त्वां मूर्धनि निधायामृतरूप किरणधारणाद्विषमपि गिलजीवतीति भावः । नेत्राणामिति । अयं दाक्षायणीनायकस्तारापतिश्चन्द्रः । अस्तीति शेषः । किं तुम कथं तुमहे । तमिति शेषः । अपि त्वतिगुणशालितया स्तोतुमेवैनं न पारयामः । कीदृशः । नेत्राणामानन्ददायित्वेन मधुपर्कस्य दधिमधुघृतस्वरूपस्य सत्रं यज्ञः सदा भोज१. 'बहुत्रासितः'; 'अथोहासितः'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy