SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५ अङ्कः ] लक्ष्मणःवाली —– आयुष्मन्, तद्विशेषं ब्रूहि । - महाभाग, www.kobatirth.org अनर्धराघवम् । राघवौ क्षत्रियावावाम् | आकारविशेषा एव गंमयन्ति जातिविशेषान् । लक्ष्मणः -- ननूक्तमेव राघवावावाम् । वाली - ( साभ्यसूयमिव 1) आः, Acharya Shri Kailassagarsuri Gyanmandir वपुरपि विवृणोति क्षत्रतां को विशेषो रघुषु यदभिधत्से राघवावित्यभीक्ष्णम् । परिकलयितुमिष्टं नाम सांस्कारिकं वा महह कथमपत्यप्रत्ययान्निश्चिनोमि ॥ ३८ ॥ लक्ष्मणः—(सधैर्यसंरम्भम् 1) भोः, आवां तौ रामलक्ष्मणौ । २०९ वाली - ( सविमर्शमात्मगतम् ।) कथं 'तौ' इति सर्वनामपदेन प्रसिद्धावित्याह । तत्किमनयोरेवान्यतरः पिनाकधन्वनो दमयिता । सोऽपि रामभद्रो रामः स्यात् । भवतु । एवं तावत् । (प्रकाशं विहस्य 1) एको वेषपरिग्रहः परिकरः साधारणः कर्मणामाकृत्योर्मधुरत्वमेव सदृशं तुल्यैव गम्भीरता । तद्रष्टुं चिरमुत्सुकोऽस्मि कतरो वां रामभद्रः पुनः सर्वक्षत्रवधत्रती भृगुपतिर्येनावकीर्णीकृतः ॥ ३९॥ लक्ष्मणः—(सविनयमिव ।) आर्य सांर्केन्दने, लक्ष्मणस्तावदहम् । वाली - अयमप्यपरो दाशरथिः कौशिकान्तेवासी रामः । प्रतिज्ञाने' इति तङ् । प्रतिकर्तव्यौ निवारणीयौ । गमयन्ति बोधयन्ति । को विशेषः । भेदो नेत्यर्थः । अभीक्ष्णं पुनः पुनः । सांस्कारिकं संस्कारो नामकरणादि तद्भवं नाम परिकलयितुं ज्ञातुमिष्टम् । अहह खेदे | अपत्यप्रत्ययादपत्यार्थविहितानादिप्रत्ययात्कथं तन्निश्चिनोमि । दमयिता भक्ता । एक इत्यादि । एकः समानः । कर्मणां धनुर्धारणादीनां साधारणस्तुल्यः परिकरः समारम्भः । उद्योग इति यावत् । यद्वा परिकरः प्रगाढगात्रबन्धः । ' स्यात्परिकरः समारम्भे प्रगाढे गात्रबन्धने' इति मेदिनीकरः । वां युवयोर्मध्ये | निर्धारणे षष्टी । भृगुपतिः परशुरामः । ' अवकीर्णी क्षतव्रतः' इत्यमरः । संक्रन्दन इन्द्रस्तस्यापत्यं सांक्रन्दनिः । 'अत इज् ' । तस्य संबोधनम् । अयमप्यपर 1 For Private and Personal Use Only १. 'अवगमयन्ति'. २. 'संभ्रमम्' ३. 'एव' इति पुस्तकान्तरे नास्ति. ४. 'सांकन्दनेय'. ५. 'अथायमपरः'.
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy