SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०८ काव्यमाला । (नेपथ्ये।) भो भो वनौकसः, कथयन्तु भवन्तः । दुन्दुभिकरङ्कविक्षेपसंभाव्यमानगम्भीरावष्टम्भनिर्भरण केनास्माकमियं चिरस्य भुजकाण्डकण्डूतिरपनेष्यते । गुहः-(स्वगतम् ।) मन्ये दर्पामयाविभ्यां नित्यं दोाममर्षणः । जाम्बवत्प्रेरणादीप्तः प्राप्तोऽयं प्लवगेश्वरः ॥ ३६ ॥ तदहमपि वीरयात्रादर्शनसुखं मुहूर्तमनुभवामि । (प्रविश्य ।) वाली-(पुरोऽवैलोक्य ।) अये, प्रसन्नोज्ज्वलाकृती कावेतौ। नियत. माभ्यामेकेन दानवनाथकङ्कालोत्क्षेपनिमित्तेन भवितव्यम् । (स्मृतिमभिनीय । सवितर्कम् ।) आः, संदिष्टमस्मासु प्रियसुहृदा लङ्केश्वरेण । यथा 'प्रक्लुप्तकान्तारकुमारभक्तिदौर्भागिनेयो जनकेन मुक्तः । मनुष्यसामन्तसुतो निषङ्गी सहानुजस्तिष्ठति दण्डकायाम् ॥ ३७॥ तौ चास्माकं तत्र विहारिषु निशाचरेषु पाटच्चरी वृत्तिमातिष्ठमानौ भवद्भिः प्रतिकर्तव्यौ' इति । तत्किमयमयं च तौ स्याताम् । रामः-वत्स लक्ष्मण, शृणु । किमयं ब्रवीति महावीरः । लक्ष्मणः-(किंचिदुपसृत्य ।) इत आवाम् । इत इतो भवान् । वाली-भोः, कावेतौ युवाम् । प्रतिश्रुतेति भावः । कमलेभ्य इति 'प्रत्याभ्यां श्रुवः-' इति संप्रदानता । नेपथ्ये वाली वदति । अवष्टम्भो गर्वः । चिरस्येति निपातश्चिरार्थे । भुजकाण्डो भुजदण्डः । प्रकाण्डो वा । प्रशस्तभुज इत्यर्थः । दर्पणैवामयावी रोगी । 'आमयस्य च दीर्घः' इति विनिः, दीर्घत्वं च । आकृतिः शरीरम् । नियतमाभ्यामेकेनेति ‘पञ्चमी विभक्त' इति निर्धारणे पञ्चमी । प्रक्लप्तति । प्रकप्ता कृता कान्तारे वने कुमारे सुग्रीवे भक्ति: सेवा येन सः । दौर्भागिनेयो दुर्भगापुत्रः । कल्याण्यादित्वादिनङ् । ढक् । जनकेन पित्रा मुक्तस्त्यक्तः । मनुष्येषु सामन्तो राजा तत्पुत्रः । निषङ्गी तूणवान् । विहारिषु क्रीडत्सु, भ्रमत्सु वा । पटचरश्चोरस्तस्येयं पाटचरी तां वृत्तिं जीविकामातिष्ठमानौ स्वीकुर्वाणौ । 'आङः १. 'प्रेरणात्'. २. 'अवलोक्य च'. ३. 'अनयोः'. ४. 'शृणु' इति पुस्तकान्तरे नास्ति. ५. 'इत ततः'. ६. 'भो भोः'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy