SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। लक्ष्मण:-भगवन् , पश्य । अद्य नैशाचरी सेनामेनामुन्मूलयन्नयम् । आधानं वीरधर्मस्य निर्माय त्वामुपस्थितः ॥ ६६ ॥ (प्रविश्य ।) रामः-(संवैलक्ष्यस्मितम् ।) पूषा वसिष्ठः कुशिकात्मजोऽयं त्रयस्त एते गुरवो रघूणाम् । महामुनेस्य गिरा कृतोऽपि स्त्रैणो वधो मां न सुखाकरोति ॥ ६७ ।। (आश्रममवलोक्य ।) प्रत्यासन्नतुषारदीधितिकरक्लिश्यत्तमोवल्लरी बल्याभिर्मखधूमवल्लिभिरमी संमीलितव्यञ्जनाः । श्वः संचीवरयिष्यमाणबटुकव्याधूतशुष्यत्त्वचो निद्राणातिथयस्तपोधनगृहाः कुर्वन्ति नः कौतुकम् ॥ ६८ ॥ क्रियायामेवासक्त इति भावः। असुराधिराजस्य या विजयक्रीडा तस्या निदानमादिकारणं धनुर्बिभ्राणैः । कूलंकष इति 'सर्वकूलाभ्रकरीषेषु कषः' इति खच् । पौलोमीति 'तस्यापत्यम्' इत्यण। डीप। वीर्य शुक्रे प्रभावे च' इति मेदिनीकरः। 'निदानं त्वादिकारणम्' इत्यमरः। उत्कर्षमुखेन रामप्रवेशं सूचयति-अद्येति । वीरधर्मस्याधानं स्थानं निधानं वा निर्माय कृत्वा । स्वस्मिन्नित्यर्थात् । स्वस्मिन्वीरधर्ममाधायेत्यर्थः । शत्रुसेनावधं कृत्वेति भावः । एवमुक्तप्रमाणेन गुरुकार्यानुरोधेनात्यन्ताकार्यमपि कृत्वानुतापं प्रकटयन्नाहपूषेति । पूषा सूर्यः । वसिष्ठो मैत्रावरुणिः । कुशिकात्मजः कौशिकः । तथा च महामुनेः कौशिकस्य गिरा वाण्या स्त्रैणः स्त्रीसंबन्धी वधो मां न सुखाकरोति न सुखयति । 'सुखप्रियादानुलोम्ये' इति डान् । स्त्रैण इति 'स्त्रीपुंसाभ्यां नमो भवनात्' इति नञ् । 'गीर्वाग्वाणी सरस्वती' इत्यमरः । अनुतापापनोदायान्यमनीभवितुमन्यद्वर्णयति-प्रत्यासन्नेति । तपोधनगृहा नोऽस्माकं कौतुकं कुर्वन्तीयन्वयः । कौतुकहेतुमाह-प्रत्यासन्ना ये तुषारदीधितिकराश्चन्द्रकिरणास्तैः क्लिश्यन्ती नष्टा भवन्ती या तमोवल्लरी अन्धकारसमूहस्तया बल्याभिज्ञेयाभिर्मखधूमवल्लिभिर्यागधूमलताभिः संमीलितं लुप्तं व्यञ्जनं चिह्न द्वारभित्त्यादिरूपं येषां ते । चन्द्रतेजसा तमोविनाशाचन्द्रोदयेऽत्यर्थ धूमलता दृश्यत इति भावः । श्व आगामिदिने संचीवरयिष्यमाणाः परिधास्यमाना बटुकेन व्याधौता १. 'इव' इति पाठः. २. 'आधारम्' इति पाठः. ३. 'विधाय' इति पाठः. ४. 'सवैलक्ष्यम्' इति पाठः. ५. 'तस्य' इति पाठः. ६. 'अयम्' इति पाठः. ७. 'कल्पाभिः' इति पाठः. ८. 'तपोवने' इति पाठः. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy