SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विद्वद्वरगणविलिखितस्वाभिप्रायावेदकशास्त्रग्रन्थानां हस्तलिखितानां संकलनम्, तत्राप्रकाशितानां महत्त्वपूर्णानां वेदतदङ्गशास्त्रालङ्कारागमग्रन्थानां पाठभेदपुरस्सरं विस्तृतभूमिकादिभिः परिष्कृत्य निखिलजननयनानयनीकरणमिति । अप्रकाशितग्रन्थानां परिष्कृत्य प्रकाशनं तदैव भवति यावत् तादृशानां ग्रन्थानां तत्र तत्र विद्वद्गृहेषु वर्तमानानां तालपत्राणां संकलनं भवति । अत एव विद्यापीठेनानेन १९६४ वत्सरात् प्रयासं विधाय अद्य यावत् (२००२ December) सार्धचतुस्सहस्राधिकाः तालपत्र - कर्गजपत्रग्रन्थाः विविधभाषामयाः नैकविषयनिबद्धाः अनेकलिपिमयाश्च संकलिताः सन्ति । तेषां सविवरणसूचीग्रन्थः (Descriptive Catalogue) निर्माणं क्रियमाणमस्ति । तच्च चिरकालसाध्यं भवतीत्यालोच्य अनुसन्धित्सूनां सौकर्यार्थम् अत्र विद्यापीठे उपलभ्यमानानां ग्रन्थानामकारादिक्रमेण सूची (Alphabetical Catalogue of Titles) प्रथमं संपाद्य प्रकाश्यते । नचिरादेव सविवरणसूच्याः प्रथमभागोऽपि भगवतः वेङ्कटनाथस्य कृपया प्रकाशमेष्यति इति विश्वसिमि । विद्यापीठे उपलभ्यमानानां मातृकाणामकारादिक्रमेण सूचीग्रन्थसंपादनार्थं कीर्तिमूर्तिभिः कुलपतिचरैः प्रो. एस्.बि. रघुनाथाचार्यमहाभागैः संपादकमण्डलमेकं समायोजितम् । यत्राहं संपादकः, सहायकसंपादकत्वेन डा. चक्रवर्तिराघवन्महाभागः, डा. श्रीमती लतामहाभागा च नियुक्ताः । त्रिभिर्मिलित्वा यथाशक्ति कार्यमिदं कृतम् । तदर्थं प्रो. एस्.बि. रघुनाथाचार्यमहोदयेभ्यः तथैव एतद्ग्रन्थप्रकाशनायानुमतिं दत्त्वा पुस्तकमिदं प्रकाशितवद्भ्यः विद्यापीठीयकुलाधिपतिभ्यः विद्वद्भ्यः संस्कृतानुरागिभ्यः डा. वा.रा. पञ्चमुखीमहाशयेभ्यः, न्यायादिविविध-शास्त्रनिपुणेभ्यः कुलपतिभ्यः प्रो. डि. प्रह्लादाचार्येभ्यश्च धन्यवादान् समर्पयामि । अत्र साक्षात् संबद्धा पूर्वं तालपत्रविभागे कार्यकर्ती संप्रति शिक्षोच्चाध्ययनसंस्थायां व्याख्यातृपदमलंकुर्वती डा. (श्रीमती) लतामहाभागा तथा विशिष्टाद्वैतविभागे वरिष्ठव्याख्यातृपदमलङ्कर्वन्तः डा. चक्रवर्तिराघवन् महाभागाः, स्वीयाध्यापनकार्येण सह सूचीनिर्माणकार्येऽपि साहाय्यं कृतवन्त इति तयोर्धन्यवादं वितरामि । श्रीप. मधुसूदनमहाभागः तालपत्रविभागे कार्यं कुर्वाणः अपेक्षितसमये मातृकाणामादानप्रदानेन अस्माकं नितान्तं साहाय्यं कृतवानिति तस्मै अपि धन्यवाद, अस्य ग्रन्थस्य मुद्रणार्थं समुचितव्यवस्था, प्रूफशोधनादिकं च कृतवद्भ्यः वेदवेदाङ्गसङ्कायप्रमुखेभ्यः पदशास्त्रविद्भ्यः आचार्य कं.वें. रामकृष्णमाचार्येभ्यः, तथैव विद्यापीठीयकुलसचिवेभ्यःश्री सि.एच्. साम्बय्यमहाभागेभ्यश्च धन्यवादान् विनिवेदयामि ।। अत्र ग्रन्थे त्रुटयः अनेकाः ग्रन्थ-नाम-विषयादिषु भवन्ति । ताः सर्वाः सविवरणसूची (Descriptive Catalogue) प्रकाशनावसरे उत्सारिताः भविष्यन्ति इति विपश्चिदपश्चिमेभ्यो सविनयं विनिवेद्य विरमति - सुधीजनविधेयः काणियम्बाक्कं इलयविल्लि गोविन्दन् तिरुपतिः दर्शनसङ्कायप्रमुखः १७-०३-०३ न्यायविभागाध्यक्षश्च राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः For Private and Personal Use Only
SR No.020036
Book TitleAlphabetical Index of Sanskrit Manuscripts in Rastriya Vidhapith Tirupati
Original Sutra AuthorN/A
AuthorK I Govindan
PublisherRashitrya Sanskrit Vidyapitham
Publication Year2003
Total Pages246
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy