SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रारभते स्म । तत्र तत्र प्राप्तानां हस्तलिखितग्रन्थानां विवरणं तदा तदा 'पण्डितपत्रिका' नाम्न्यां पत्रिकायां प्रकाशितमासीत् । तस्य (Catalogue) विवरणसूची महामहोपाध्यायगोपीनाथकविराजविदुषा १९३५ वर्षे प्रकाशिता । Acharya Shri Kailassagarsuri Gyanmandir एवं गुर्जरप्रदेशे १९२७ वर्षे बरोडानगरे Sayaji Rao Government Oriental (Manuscripts) Research Institute स्थापिता । तत्रादौ महामहोपाध्यायानन्तकृष्णविदुषा दशसहस्रं मातृकाः संपाद्य स्थापिताः । महाराष्ट्रदेशे पूनानगरे १९१७ वर्षे Cental Research Institute स्थापिता । तत्राप्यनेकसहस्रं हस्तलिखितग्रन्थाः संपाद्य स्थापिताः । मद्रासूराजधान्यां तञ्जावूरुनगरे महाराष्ट्रशासनकाले १७७८ वर्षे तञ्जावूरु महाराज - सर्पोजी - सरस्वती-महल् (T.M.S.S.M.) मातृका कोशागारे परस्सहस्रं हस्तलिखितग्रन्थाः विविधस्थलेभ्यः समानीय संरक्षिताः । एवं दक्षिणदेशे १८०० - १८५० वर्षेषु मेकन्सी- ब्रौन् प्रभृतिभिः विद्वद्भिः प्रतिग्राममटित्वा परस्सहस्रं तालकर्गजपत्रग्रन्थाः महता श्रमेण संपाद्य रक्षिताः । कालान्तरे तत्सर्वं स्वीकृत्य मद्रास्सर्वकारः Government Oriental Manuscripts Library नामकग्रन्थालये न्यक्षिपत् । मद्रास् नगरे १८८६ वर्षे Adyar Library इति काचित् संस्था संस्थापिता । तत्रादौ विंशतिसहस्रं पाण्डुलिपयः संगृह्य संस्थापिताः । अत्र तदानीं चीना- सिलोन्- पर्शिया देशेभ्यः विविधविषयेषु हस्तलिखितग्रन्थाः समानीय रक्षिताः सन्ति । १८९१ वर्षे मैसूरुनगरे Oriental Research Institute तदानीन्तनमैसूरुसर्वकारेण स्थापिता । तत्र कर्णाटकप्रान्ते वर्तमानानां विदुषाम् अन्येषां च कृतयः समानीय रक्षिताः । इत्थं तदानीन्तनकाले तत्र तत्र वर्तमानानां ग्रन्थानां सूचीं दृष्ट्वा थियोडर आफ्रोट् (Theodor Aufrecht) नामा विद्वान् १८९१ वर्षात् १९०३ वर्षेषु Catalogus Catalogurum इति तालपत्रग्रन्थविवरणसूचीनां विवरणसूचीं निर्माय संपुटत्रयं प्राचीकशत् । येनानुसन्धित्सूनां महानुपकारः संजातः । १८९५ वर्षे पंजाब्विश्वविद्यालयस्य कुलपतिः AE. Wollmer नामा विद्वान् आफ्रोट्निर्मितस्य केटलागस् केटलागोरम् पुस्तकस्यानुबन्धरूपेण तेनानुल्लिखितानां तालपत्राणामपि संयोजनं विधाय किमपि नूतनं केटलागस् केटलागोरम् प्रकाशनीयमिति मद्रास्विश्वविद्यालयाय पत्रं लिलेख । तदर्थं तदानीं महामहोपाध्यायकुप्पुस्वामिशास्त्रिणां नेतृत्वे काचित् समितिः संघटिता मद्रास विश्वविद्यालयेन । तस्यां समित्यां मद्रास्विश्वविद्यालयसंस्कृतविभागाध्यक्षः डा. कुन्हन्राजा, Prof. P. P. सुब्रह्मण्यशास्त्री इति द्वौ सदस्यौ एतयोः सहायकरूपेण डा. वी. राघवन्महाभागः नियुक्तः । नूतनस्य केटलागस् केटलागोरम् ग्रन्थस्य कार्यं १९३५ वर्षे नवम्बरमासस्यान्तिमसप्ताहे प्रारभ्याद्यावधि त्रयोदशसंपुटानि प्रकाशितानि । अग्रे च तत्कार्यं प्रचलदस्ति । केटलागस्केटलागोरम् परियोजनायामनन्तर्भूताः अनेकाः हस्तलिखितग्रन्थसंरक्षणसंस्थाः सन्ति । तासु अन्यतमेयं 'राष्ट्रियसंस्कृतविद्यापीठ' संस्था | संस्कृतायोगप्रस्तावस्य (Sanskrit Commisssion Report) आधारेण भारतसर्वकारस्य शिक्षामन्त्रालयेन दक्षिणदेशे आन्ध्रप्रान्ते अतिपवित्रतमे कलियुगप्रत्यक्षदैवतस्य श्रीनिवासस्य पादारविन्दे तिरुपतिक्षेत्रे सुरभारत्याः वृद्धि प्रसिद्धि प्रसारं च कामयमानेन १९६१ वत्सरे केन्द्रीयसंस्कृतविद्यापीठं समुपस्थापितम् । स्थापनावसरे एव लक्ष्यमिदं मुख्यमासीत् शिक्षामन्त्रालयस्य यत् इतरभाषाध्यापने नवीनपद्धतिमवलम्ब्य पाठनेन बालानां सौकर्यमत्यधिकं भवतीत्यनुभूय तद्वत्रापि प्राचीनरीत्या शास्त्राणि अधीत्य तत्र तत्र प्राथमिकमाध्यमिककलाशालासु संस्कृताध्यापनं कुर्वतां संस्कृताध्यापकानां तदध्यापने नूतनपद्धतेरवगमनाय प्रशिक्षणदानम्, तथैव दक्षिणापथे सुरभारतीसमुपासनपर (vi) For Private and Personal Use Only
SR No.020036
Book TitleAlphabetical Index of Sanskrit Manuscripts in Rastriya Vidhapith Tirupati
Original Sutra AuthorN/A
AuthorK I Govindan
PublisherRashitrya Sanskrit Vidyapitham
Publication Year2003
Total Pages246
LanguageEnglish
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy