SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [वारिवर्गः रक्तपा तु जलौकायां स्त्रियां भूमि जलौकसः ॥ २२ ॥ मुक्तास्फोटः स्त्रियां शुक्तिः शंखः स्यात्कंबुरस्त्रियौ। क्षुद्रशंखाः शंखनखाः शंबूका जलशुक्तयः॥ २३ ॥ भेके मंडूकवर्षाभूशालूरप्लवदर्दुराः ॥ शिली गंडूपदी भेकी वर्षान्वी कमठी डुलिः ॥ २४ ॥ मद्गुरस्य प्रिया शृंगी दुर्नामा दीर्घकोशिका ॥ . जलाशया जलाधारास्तत्रागाधजलो हदः ॥२५॥ आहावस्तु निपानं स्यादुपकूपजलाशये ॥ पदः । निहाका गोधिका द्वे जलगोधिकायाः “पाण्यांतील घोरपड इति ख्यातायाः।" रक्तपा जलौका जलौकसः त्रीणि जळू इति ख्यातस्य । तत्र जलौकसः स्त्रीत्वे बहुत्वे च नित्यम् । “उचः क इति निपातितोऽदंत ओकशब्दः । जलौका तु जलौका स्याज्जलूका च जलौकसीति संसारावर्ताद्वहुवचनं प्रायिकम् । जलौकापि जलौका स्याज्जलूका जलजंतुकेति तारपालोऽपि" ॥ २२ ॥ मुक्तास्फोट: मुक्ताः मौक्तिकानि स्फुटंति यत्र स्फुट विकसने । शुक्तिः द्वे शुक्तिकायाः । शंखः कंवुः । शंखस्य । " पुन्नपुंसकौ ।" क्षुद्रशंखाः शंखनखाः “ शंखनकाः" द्वे सूक्ष्मशंखानाम् । जलशुक्तयः जलमात्रजाः शुक्तयः शंबूका उच्यते । “शंबुक: शांबुकः शंबुः" एक क्षुद्रशुक्तिकानाम् । शंबुकः स्त्रीपुंसयोः । “ शंबूका न नपुंसके इति मेदिनी । शंबूकः शंबुकः शंबुपूर्वः कांतस्तु सर्वदा । ककारेण विना शेषो दृश्यते ग्रंथविस्तर इत्युत्पलिनी" ॥ २३ ॥ भेकः मंडूकः वर्षाभूः शालूरः । “ परिसरकृकलासस्वेदसालर इत्यूध्मविवेकाईत्यादिरपि । "प्लवः दर्दुरः षट् भेकस्य । शिली गंडूपदी द्वे स्वल्पगंडूपदजातेः । भेकी वर्षाभ्वी “ वर्षाभूः" हे क्षुद्रभेकजातेः । कमठी डुलिः द्वे काः ॥ २४ ॥ मद्गुराख्यस्य मत्स्यविशेषस्य प्रिया स्त्री शृंगीत्युच्यते एकम् । दुर्नामा " दुर्नाम्नी" दीर्घकोशिका द्वे जलूकाकारस्य जलचरविशेषस्य । जलाशयाः जलाधाराः द्वे तडागादीनाम् । तत्र जलाशयेष्वेव वक्ष्यमाणा विशेषाः । अगाधमतलस्पर्श जलं यस्य स जलाशयो हद उच्यते एकम् ॥२५॥ उपकूपजलाशये कूपसमीपे यो जलाशयः कृपोवृतांबुस्थापनीयशिलादिरचितो गर्तः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy