SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य नरकवर्गः ९ विष्टिराजूः कारणा तु यातना तीव्रवेदना ॥ पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् ॥३॥ स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत् ॥ इति नरकवर्गः॥ ॥७॥ समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः॥ उदन्वानुदधिः सिंधुः सरस्वान्सागरो ऽर्णवः ॥ १॥ रत्नाकरो जलनिधिर्यादापतिरपांपतिः॥ तस्य प्रभेदाः क्षीरोदो लवणोदस्तथाऽपरे ॥ २॥ शुभे ऽपि चेति रभसः । एकम् ॥ २॥ विष्टिः आजूः द्वे नरके हठात्प्रक्षेपस्प । “निर्मूल्यकर्मकरणे इति मुकुटः । भद्राख्यकरणस्येत्यन्ये । विष्टिः कर्मकरे ऽमूल्ये भद्राजूप्रेरणेषु चेति हैमः।" आजूवेतनयोविष्टिरिति शाश्वतः । कारणा यातना तीव्रवेदना त्रयं नरकपीडायाः । पीडा बाधा । “आबाधेति वा छेदः । आबाधा वेदना दुःखमिति हलायुधः ।" व्यथा दुःखं आमनस्यं “अमानस्यं । प्रसूतिजममानस्यं कृच्छूकष्टं कलाकुलमिति वाचस्पतिः । अत्र अमनसो भाव इति । मानस्याद्भिन्नमिति वा विग्रहः।" प्रसूतिजम् ॥ ३॥ कष्टं कृच्छं आभीलं नव दुःख. स्य । अत्र नवापि दुःखस्येत्येके । “पीडादिचतुष्कं मनःपीडायाः । आमनस्यादि द्वयं वैमनस्यस्य । कष्टादि त्रयं शरीरपीडाया इति भेदः” । एषां मध्ये यदुःखादिकं भेद्यगामि विशेष्यवृत्ति तत् त्रिषु । यथा। सेयं सेवा दुःखा च बहुरूपा। सोऽयं दुःखसुतो ऽगुणः । सर्वं दुःखं विवेकिन इति । भेद्यगामित्वाभावे तदुक्तलिंगमेव ॥ इति नरकवर्गः ॥ ॥७॥ समुद्रः । समीचीना उद्रा जलचरविशेषा यस्मिन् । सह मुद्रया मर्यादया वर्तते इति वा । वोपसर्जनेति सहस्य सः। अब्धिः अकपारः पारावारः “पारापारः" सरित्पतिः उदन्वान् उदधिः सिंधुः। सिंधुर्वमथुदेशाब्धिनदे ना सरिति स्त्रियामिति विश्वमेदिन्यौ।” सरस्वान् सागरः अर्णवः। अर्णासि उदकानि यत्र संति । अर्णसो लोपश्चेति ॥ १॥ रत्नाकरः जलनिधिः यादःपतिः अपांपतिः पंचदश समुद्रमात्रस्य । तस्य समुद्रस्य प्रभेदाः। क्षीरोदः लवणोदः। तथा अपरे दध्युदघृतोदसरोदेसूदस्वादूदाः । “लवणेक्षुसुरासर्पिर्दधिक्षीरजलाः समा For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy