SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. स्वर्गयागाद्रिमेघाधिद्रुकालासिशरारयः ॥११॥ करगंडोष्ठदोदतकंठकेशनखस्तनाः॥ अहाहांताः देवेडभेदा रात्रांताः प्रागसंख्यकाः ॥१२॥ श्रीवेष्टाद्याश्च निर्यासा असन्नता अबाधिताः॥ क्लीबे त्रिविष्टपमिति बाधकं बलवत्तरं तद्विना पुंस्त्वम् । यागो यज्ञः । मखः क्रतुः । तद्भेदा अग्निष्टोमादयः । इष्टथादेर्बाधितत्वं वक्ष्यति । अद्रिः गिरिः पर्वतः। तद्भेदा मेस्सह्यादयः । एषां मध्ये ऽपवादः चेदुक्तः शैलवर्गे । मेघो धन इत्यादिः पर्यायः । भेदः पुष्करावर्तादिः । अभ्रस्य तु अभ्रं मेघ इति क्लीबंपाठो बाधकः । अब्धिः समुद्र इत्यादयः समुद्रपर्यायाः । क्षीरोदादिर्भेदः । दुर्वृक्षः । शाखीत्यादिपर्यायः । वटादिर्भेदः । अत्रापि क्वचिद्रूपभेदादिना “ पाटलाशिंशपादौ" अपवादा उक्ताः । कालो दिष्टः समयः एवं पर्यायः । मासादयो भेदाः । असिः खगः । नंदकादयो भेदाः । “ईल्यादौ बाधः ।" शरो बाणः । भेदो नाराचादिः । इषुर्द्वयोरिति विशेषो दर्शितः । अरिः शत्रुः । भेद आतताय्यादिः ॥ ११॥ करो राजप्राद्यभागो रश्मिः पाणिश्च । दीधित्यादीनां तु पुंस्त्वं बाधितम् । गंडः कपोलः । ओष्ठो दंतच्छदः । दशनवसनादि तु रूपभेदात् बाधितम् । दोः प्रवेष्टः । भुजबाह्वोस्तु द्वयोरिति विशेषः। दंतो रदः । दंतस्थाने दंड इत्यपि पाठः । कंठो गलः । “समीपगलभेदेषु कंठं त्रिषु विदुर्बुधा इति शाश्वतः ।" केशः कचः । नखः कररुहः । नखो ऽस्त्रीत्यादिनां बाधितम् । स्तनः कुचः। एते यथासंभवं सभेदपर्यायाः पुंसि । अह्नः अहश्च एतदंताः पुंसि स्युः । यथा । अह्नः पूर्व पूर्वाह्नः। “अह्नः अपरं अपराह्नः ।" द्वे अहनी समाहृते द्वयहः । क्ष्वेडभेदा विषविशेषाः पुंस्त्वे स्युः । यथा । सौराष्ट्रिकः । अत्र गरलं विषं पुंसि क्लीबे च । काकोलं इत्यादि बाधितम् । रात्रांता इति समासांतस्यैकदेशानुकरणम् । एवमुत्तरत्रापि । रात्रशब्दों ऽते येषां ते यदि प्राक् असंख्यावाचकशब्दरहितास्तर्हि पुंसि । यथा । अहश्च रात्रिश्चाहोरात्रः सर्वरात्रः पूर्वरात्रः अपररात्रः । प्रागसंख्यका इति किम् । पंचरात्रम् । गणरात्रम् । पुण्यरात्रस्यार्धर्चादिपाठात् क्लींवत्वं च ॥ १२॥ श्रीवेष्टादयो ये निर्यासाः द्रवसारवाचकास्ते पुंसि स्युः । श्रीवेष्टः सरलः । “ श्रीपिष्ट इति कचित्पाठः ।" आद्येन श्रीवासवृकधूपादयः । चकारागुग्गुलुसिल्हकादयः । अस् च अन् च तावंतौ येषां ते असन्नताः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy