SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. इति हेतुप्रकरणप्रकाशादिसमाप्तिषु ॥ २४४ ॥ प्राच्यां पुरस्तात्पथमे पुरार्थे ऽग्रत इत्यपि ॥ यावत्तावच साकल्ये ऽवधौ माने ऽवधारणे ॥ २४५॥ मंगलानंतरारंभप्रश्नकात्स्न्येष्वथो अथ ॥ वृथा निरर्थकाविध्यो ना ऽनेकोभयार्थयोः ॥ २४६ ॥ सारेण प्रतिशब्दस्य प्रक्षेपः । “प्रतीत्थंभूतभागयोः । प्रतिदाने प्रतिनिधौ वीप्सालक्षणयोरपीति हैमः ।" हेत्वर्थे इतिशब्दः । यथा रामो हंतीति रावणः पलायते । प्रकरणं प्रकारः । यथा विप्रक्षत्रियविट्शूद्रा इति वर्णाः । प्रकाशे यथा । इति पाणिनिः । पाणिनिशब्दो लोके प्रकाशते इत्यर्थः । “प्रकर्ष इति पाठः।" आदिशब्दादेवमर्थे। यथा।क्रमादमुं नारद इत्यबोधि । समाप्ताववसाने यथा। धर्ममाचरेदिति। "इति स्वरूपे सान्निध्ये विवक्षानियमे ऽपि च । हेतौ प्रकारप्रत्यक्षप्रकर्षेष्ववधारणे । एवमर्थे समाप्तौ स्यादिति हैमः" ॥ २४४ ॥ प्राच्याद्यर्थचतुष्के पुरस्तात् । प्राच्यां पूर्वदिशि । प्रथमे यथा । पुरस्ताद्धुंक्ते । पुरार्थे ऽतीते यथा । पुरस्ताद्वासो ऽभूत् । अग्रतोऽने यथा । पुरस्तात्पुस्तकम् । यद्वाग्रत इति । अपिशब्दः प्राच्याद्यर्थे स्यात् । साकल्यादौ यावत्तावच्छब्दौ । यथा यावद्दत्तं तावद्भुक्तम् । अवधौ यथा । मलाच्छाखां यावत्प्रकांडः।माने परिमाणे यथा । यावत्स्वर्णं तावद्रजतम् । अवधारणे निश्चये यथा| श्रोत्रियं तावदामंत्रयस्व । “ यावत्कात्स्न्ये ऽवधारणे । प्रशंसायां परिच्छेदे मानाधिकारसंभ्रमे । पक्षांतरे चेति मेदिनी" ॥२४५॥ अथो अथ इमौ शब्दौ मंगलादिषु। मंगले यथा । अथातो ब्रह्मजिज्ञासा । अनंतरे यथा । स्नानं कृत्वा ऽथ भुंजीत। आरंभे यथा । अथ शब्दानुशासनं लिख्यते । प्रने यथा। अथ वक्तुं समर्थो ऽसि। कात्स्न्ये यथा । अथ धातून्ब्रूमः । “अथो अथ समुच्चये । मंगले संशयारंभाधिकारानंतरेषु च। अन्वादेशे प्रतिज्ञायां प्रभसाकल्ययोरपीति हैमः।” निरर्थक वृथा। यथा । वृथा दुग्धो ऽनडान् । अविधौ विधिहीने वृथा । यथा वृथा दानम् । “वृथा निष्कारणे वंध्ये वृथा स्याद्विधिवर्जित इति विश्वः।" अनेकार्थे नानाशब्दो यथा । नानाविधा जनाः । उभयार्थे यथा । नानाविधं न सज्जेत । “नानाविनोभयानेकाथेष्विति हेमचंद्रः" ॥ २४६ ॥ पृच्छायां यथा । को नु धावति । विकल्पे यथा । ४४ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy