SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३४४ सटीकामरकोशस्य नानार्थवर्गः सकृत्सहैकवारे चाप्यारादूरसमीपयोः॥ २४१ ॥ प्रतीच्यां चरमे पश्चाताप्यर्थविकल्पयोः॥ पुनःसहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः ॥ २४२ ॥ खेदानुकंपासंतोषविस्मयामंत्रणे बत ॥ हंत हर्षे ऽनुकंपायां वाक्यारंभविषादयोः॥ २४३ ॥ प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ॥ इति मेदिनी।" भेदावधारणयोस्तुशब्दो यथा । क्षीरान्मांसं तु पुष्टिकृत् । शिष्टैर्मतं तु तयुक्तम् । “ तु पादपूरणे भेदे समुच्चये ऽवधारणे । पक्षांतरे नियोगे च प्रशंसायां विनिग्रह इति मेदिनी।" सहार्थे एकवारे च सकृत् । यथा सकृद्यांति। सकृदपि कर्याद्याश्राद्धम् । दूरे "आरात्" । यथा आराच्छत्रोः सदा वसेत् । समीपे तु सखायं स्थापयेदारात् ॥२४॥प्रतीच्या पश्चिमदिशि । चरमेंऽत्ये च पश्चात् । यथा। "पश्चादस्तंगतो रविः । पश्चिमे वयसि नैमिषं वशी।" अपिशब्दस्यार्थः समुच्चयस्तत्र विकल्प चौतशब्दो यथा । उत भीम उतार्जुनः । विष्णुरुत शिवः सेव्यः । “उत प्रभवितर्कयोः । समुच्चये विकल्पे चेति हैमः । अजयस्तु उतापी द्वौ च बाढार्थाविति।" पुनरर्थे पौनःपुन्ये सहार्थे च शश्वत् । यथा शश्वद्विष्णुं स्मरेत् । शिष्यैः शश्वद्गतो गुरुः । “ शश्वत्स्यादात्मप्रश्ने च मंगले । पुरा कल्पे सदार्थे च पुनरर्थे च दृश्यत इति मेदिनी । अजयस्तु शश्वत्सहसदार्थयोरित्याह । शश्वत्सह पुनर्नित्य इति हैमश्च।" प्रत्यक्षे तुल्ये च साक्षात् । यथा। साक्षात् दृष्टो मया हरिः । साक्षाल्लक्ष्मीरियं वधूः ॥२४२॥ खेदाद्यर्थपंचके बत । यथा । अहो बत महत्कष्टमिति । बत निःस्वो ऽसि । बत पतिरालिंगितः । अहो बतायं ध्रुव आप देवम् । एहि बत सखे । “बतेत्यव्ययं दत्योष्ठयादीत्यजयः।" हर्षादिचतुष्के हंतशब्दः। “हर्षे यथा । हंत लाभः शतगुणः। अनुकंपायां यथा । हंत दीनो रक्षितव्यः ।" वाक्यारंभे यथा । हंत ते कथयिष्यामि। " विषादे यथा । हंत जातमजातारेः प्रथमेन त्वया ऽरिणा । हंत दाने ऽनुकुंपायां वाक्यारंभविषादयोः । निश्चये च प्रमोदे चेति हमः " ॥ २४३ ॥ यो मुख्येन सदृशः प्रतिनिधिस्तत्र प्रतिशब्दो यथा । अभिमन्युं प्रति परीक्षित् । वीप्सा व्याप्तुमिच्छा तत्र । यथा । तीर्थ तीर्थ प्रति गच्छति । लक्षणायां यथा । वृक्षशाखां प्रति विद्योतते विद्युत् । आदिना इत्थंभृताख्यानादौ । प्रयोगत इति शिष्ट प्रयोगानु For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy