SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नानार्थवर्गः मारुते वेब पुंसि कः कं शिरोंऽबुनोः || स्यात्पुला कस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ॥ ५॥ उल्लू के करिणः पुच्छमूलोपांते च पेचकः ॥ कमंडलौ च करकः सुगते च विनायकः ॥ ६ ॥ किष्कुर्हस्ते वितस्तौ च शुककीटे च वृश्चिकः ॥ प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम् ॥ ७ ॥ स्याद्भूतिकं तु भूनिंबे कतृणे भूस्तृणे ऽपि च ॥ ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले ॥ ८ ॥ सिते च खदिरे सोमवल्कः स्यादथ सिल्हके || मारुते वाय वेधस त्रह्मणि ने सूर्ये क इत्येकाक्षरं नाम पुंसि । तद्रूपं तु । कः कौ काः इत्यादि देववत् । शिरसि जले च कमिति क्लीम् । सुखे ऽपि कम् । “ को ब्रह्मणि समीरात्मयमदक्षेषु भास्करे । मयूरेऽग्नौ च पुंसि स्यात्सुखशीर्षजलेषु कमिति मेदिनी । " तुच्छधान्ये तंडुलशून्ये धान्ये संक्षेपे अविस्तारे भक्तसिक्थके अन्नावयवे पुलाक इत्येकम् ॥ ५ ॥ करिणो गजस्य पुच्छमूलोपांते गुदाच्छादकमांसपिंडे उलूकः पक्षिभेदस्तत्र च पेचकः । कमंडलौ चकाराद्वर्षोपले दाडिमादौ च करकः । करकस्तु पुमान पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मेघोपले न स्त्री करकं च कमंडलाविति मेदिन्याम् । सुगते बुद्धे चकाराद्विघ्नराजे गरुडे च विनायकः || ६ || हस्ते हस्तप्रमाणे वितस्तौ च किष्कुः । प्रकोष्ठे ऽप्यनपुंसक इति रुद्रः । शुककीटे शुकसदृशरोमव्याप्ते कीटविशेषे चकारादौ कर्कटे वृक्षविशेषे ऽष्टमराशौ च वृश्चिकः । प्रतिकूले च प्रतीकः । तत्र प्रतिकूले त्रिषु । अवयवे पुंसि ॥ ७ ॥ भूनिंबे किराततिक्ते कत्तृणं भूस्तृणं च गंधतृणविशेषौ तत्र भूतिकम् । ज्योत्निकायां पटोल्यां “घोषे अपामार्गे च कोशातकी । कोशातकः कचे पुंसि पटोल्यां घोषके स्त्रियामिति मेदिनी ॥ ८ ॥ कट्फले कायफल इति ख्याते वृक्षभेदे शुक्लखदिरे च सोमवल्कः । सोम इव वल्को वल्कलमस्य । सिल्हके पण्यभेदे तिलकल्के निःस्नेहतिलचूर्णे च पिण्याकः । रामठे हिंगुनि । चकाराद्वाल्हिके देशे ऽश्वे धीरे च । -हस्वमध्यं च बाल्हिक "" For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy