SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम् भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते ॥१॥ आकाशे त्रिदिवे नाको लोकस्तु भुवने जने ॥ पद्ये यशसि च श्लोकः शरे खङ्गे च सायकः॥२॥ जंबुकौ क्रोष्टुवरुणौ पृथुको चिपिटार्भको॥ आलोकौ दर्शनद्योती भेरीपटहमानकौ ॥३॥ उत्संगचिन्हयोरंकः कलंकों ऽकापवादयोः॥ तक्षको नागवईक्योरर्कः स्फटिकसूर्ययोः॥४॥ कुतः प्रागुक्ता इत्यत आह । नानार्था इति । अत्र वक्ष्यमाणेषु कांतादिवर्गेष्वेव केऽपि नानार्थी उक्ता नतु प्रागुक्तपर्यायेषु। यथा। मारुते वेधसि बन्ने पुंसि कः कं शिरोंबुनोरिति।भूरिप्रयोगा यत्र कुत्रापि काव्यादिषु कविभिः प्राचुर्येण प्रयुक्ता ये नाकलोकादयः शब्दास्ते पूर्वोक्तेषु येषु पर्यायेषु दृश्यते तेषु पर्यायेषु अपिशब्दादत्रापि कांतादिषु कीतिताः। यथा नाकशब्दः प्रचुरप्रयोगत्वात्प्राक् स्वर्गाकाशयोरुक्तो ऽपि पुनरिहोक्तः । जंबुकशब्दस्तु सृगालपर्यायध्वेवोक्तो नतु वरुणपर्यायेषु । भूरिप्रयोगत्वाभावात् । इह तु जंबुकौ क्रोष्टुवरुणावित्युभयत्रोच्यते ॥ १॥ नाक इत्येकं नाम ककारांतम् आकाशे स्वर्गे च वर्तते । “न अकं दुःखमत्र नाकः नभ्राडिति सूत्रे निपातितः ।" भुवने स्वर्गादौ जने च लोक इत्येकम् । “लोक्यते लोकः।" पद्ये अनुष्टुवादौ वृत्ते यशसि कीर्ती श्लोक इत्येकम् । “ श्लोक्यते श्लोकः । श्लोक संघाते ।" यशसि यथा । उत्तमश्लोको हरिः । शरे बाणे खड्ङ्गे च सायकः ॥ २॥ कोष्टा मृगालः । वरुणः प्रसिद्धः उभौ जंबुकशब्दवाच्यौ । “ जंबुकः फेरवे नीचे पश्चिमाशापतावपीति मेदिनी।" चिपिटो भ्रष्टव्रीहितंडुलः पोहे इति लौकिकभाषायाम् । अर्भकः शिशुः तावुभौ पृथुको । पृथुकः पुंसि चिपिटे शिशौ स्यादभिधेयवत् इति। दर्शनं प्रकाशश्वालोको । “आलोकस्तु पुमान् द्योते दर्शने बंदिभाषण इति मेदिनी ।" भेरीपटहं वाद्यविशेषौ । तूर्यांगत्वादेकवद्भावः । उभावानको । “ आनकः पटहे भेर्या मृदंगे ध्वनदंबुद इति भेदिनी" ॥ ३॥ उत्संगः क्रोडः तत्र चिन्हे चांकः । " अंकी रूपकभेदांऽगचिन्हरेखाजिभूषणे । रूपकांशांतिकोत्संगस्थाने के पापदुःखयोरिति मेदिनी।" चिन्हे दोषारोपे च कलंकः । “कलंकों ऽके ऽपवादे च कालायसमलेऽपि चेति मेदिनी।" नागविशेषे त्वष्टरि च तक्षकः । स्फटिकसूर्ययोरर्कशब्दो वर्तते । “ अर्कोऽर्कपणे स्फटिके रवौ ताने दिवस्पताविति मेदिनी ॥४॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy