SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २) तृतीयं कांडम्. २८५ निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः ।। स्तंबन्नस्तु संबघनः संबो येन निहन्यते ॥ ३५॥ आविधो विध्यते येन तत्र विष्वक्समे निघः॥ उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थको ॥ ३६ ॥ निगारोदारविक्षावोद्राहास्तु गरणादिषु ॥ ३७॥ आरत्यवरतिविरतय उपरामे ऽथास्त्रियां तु निष्ठेवः ॥ निष्ठयूतिनिष्ठेवनं निष्ठीवनमित्यभिन्नानि ॥ ३८ ॥ जवने जूतिः सातिस्त्ववसाने सादथ ज्वरे जूर्तिः॥ उदजस्तु पशुप्रेरणमकरणिरित्यादयः शापे ॥ ३९ ॥ उद्धनः एकम् । ऊर्ध्वं हन्यते ऽस्मिन् उद्धनः । उदनोत्याधानमिति सूत्रेण साधुः । स्तंबस्तृणगुच्छो येन निहन्यते स खनित्रविशेषः स्तंबन्नः स्तंबधनः द्वे । खुर, विळा इति लौकिकभाषायाम् ॥ ३५ ॥ येन विध्यते तत्र शस्त्रादौ आविध इत्येक “भ्रमरसूच्यादेः विंधणे इत्यादिख्यातस्य ।” विष्वक्समे सर्वतः समाने वृक्षे निघ इत्येकं "तुल्यारोहपरिणाहवृक्षादेः।" उत्कारः निकारः द्वौ धान्यस्य उत्क्षेपण. मों ययोस्तौ तथा ॥ ३६ ।। निगारादयो गरणादिषु । यथा गरणे अभ्यवहारे निगार इत्येकं “ गिळणे इति ख्यातस्य । उद्गरणे" वमने उद्गारः । “ विक्षवणे" शब्दे विक्षावः इत्येकं “शिंक इति ख्यातायाः ।'' उद्हणे ऊर्वीकृत्य ग्रहणे उदाहः " ढेकर इति ख्यातः ।” एकैकम् ॥ ३७॥ आरतिः अवरतिः विरतिः उपरामः उपरम इत्यपि चत्वायुपरतेः । निष्टेवः निष्टयूतिः निष्ठेवनं निष्ठीवनं चत्वारि मुखेन श्लेष्मोत्सर्गस्य । “ क्लीवे निष्टेवम् ।" अभिन्नानि एकार्थानीत्यर्थः ॥ ३८॥ जवनं जूतिः द्वे वेगस्य । जू इति सौत्रो धातुः गतौ वेगे च ऊतियतिजूतीति सूत्रेण साधुः । सातिः अवसानं द्वे अंतस्य । ज्वरः जूर्तिः द्वे ज्वरस्य । पशूनां गवादीनां प्रेरणं उदजः स्यात् एकम् । शापे आक्रोशे द्योत्ये अकरणिरित्यादयः। आक्रोशे नबीति भावे करोतेरनिः । आदिशब्दादजीवनिः । “अजननिः । अवग्राहः निग्राह इति ।" यथा आः पाप कथमकरण्या न लज्जसे । अजीवनिस्ते शठ भूयात् ॥३९॥ गोत्रांतेभ्यः अपत्यार्थप्रत्ययांतेभ्यः औपगवादिशब्देभ्यस्तस्य वृंदमित्यर्थे औ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy