SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. २७५ वरिवसिते वरिवस्थितमुपासितं चोपचरितं च ॥ संतापितसंतप्तौ धूपितधूपायितौ च दूनश्च ॥ १०२॥ हृष्टे मत्तस्तृप्तः प्रल्हन्नः प्रमुदितः प्रीतः॥ छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृणम् ॥ १०३ ॥ स्रस्तं ध्वस्त भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् ॥ लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च ॥ १०४ ॥ अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् ॥ आई साई क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तं च ॥ १०५॥ त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च ॥ अवगणितमवमतावज्ञाते ऽवमानितं च परिभूते ॥१०६ ।। यक्तं हीनं विधुतं समुझ्झितं धूतमुत्सृष्टे ॥ उक्तंभाषितमुदितं जल्पितमारख्यातमभिहितं लपितम् १०७ वरिवस्थितं उपासितं उपचरितं चत्वारि शुश्रूषितस्य । संतापितं संतप्तं धूपितं धपायितं दूनं पंच संतापितस्य । “ एभ्यः अकर्मकेभ्यः कर्तरि ते ऽप्येतान्येव रू. पाणि ॥ १०२ ॥ हृष्टः मत्तः तृप्तः प्रल्हन्नः प्रमुदितः प्रीतः षट् प्रमुदितस्य । छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृणं अष्टौ खंडितस्य ॥ १०३ ॥ स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितं सप्त च्युतस्य । “ एभ्यो गत्यर्थाकर्मकेति कर्तरि ते एतान्येव रूपाणि ।" लब्धं प्राप्तं विन्नं भावितं आसादितं भूतं षट् प्राप्तस्य ॥ १०४ ॥ अन्वेषितं गवेषितं अन्विष्टं मार्गितं मृगितं पंच गवेषि तस्य । यथा इतस्ततो गवेषितो ऽपि चोरो न दृष्टः। आर्द्र साई क्लिन्नं तिमितं स्तिमितं समुन्नं उत्तं सप्त क्लिन्नस्य । यथा स्तिमितलोचनो ऽश्रुभिः ॥ १०५ ॥ त्रातं त्राणं रक्षितं अवितं गोपायितं गुप्तं षट् रक्षितस्य । अवगणितं अवमतं अवज्ञातं अवमानितं परिभूतं पंच "अवमानितस्य" ॥ १०६ ॥ त्यक्तं हीनं विधुतं समुझ्झितं धूतं उत्सृष्टं षडुत्सृष्टस्य । उक्तं भाषितं उदितं जल्पितं आख्यातं अभिहितं लपितं षडुदितस्य ॥ १०७ ॥ बुद्धं बुधितं मनितं विदितं प्रतिपन्नं अवसितं अवगतं सप्तावगतस्य । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy