SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं काडम्. २५७. बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः॥ परानः परपिंडादो भक्षको घस्मरो ऽद्मरः ॥ २० ॥ आयूनः स्यादौदरिको विजिगीषाविवर्जिते ॥ उभौ त्वामभरिः कुक्षिभरिः खोदरपूरके ॥ २१ ॥ सर्वान्नीनस्तु सर्वान्नभोजी गृघ्नस्तु गर्धनः॥ लुब्धो ऽभिलाषुकस्तृष्णक समौ लोलुपलोलुभौ ॥२२॥ सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः॥ मत्ते शौंडोत्कटक्षीवाः कामुके कमिता ऽनुकः ॥ २३ ॥ कमः कामयिता ऽभीकः कमनः कामनो ऽभिकः॥ इच्छा अशनाया सा जाता ऽस्य ।” परान्नः परपिंडादः द्वे परान्नोपजीविनः । भक्षकः घस्मरः अद्मरः त्रीणि भक्षणशीलस्य । “ अत्तीत्यमरः" ॥ २० ॥ आयूनः औदरिकः द्वे विजिगीषाविवर्जिते उत्कर्षेच्छारहिते । बुभुक्षयाऽत्यंतपीडिते इत्यर्थः । उदरे प्रसित औदरिकः । उदराठगाधून इति ठक् । आत्मभरिः कुक्षिभरिः द्वे यः स्वोदरं बिभर्ति तस्य “पोटभरू इति ख्यातस्य ।" आत्मानं बिभर्ति आत्मभरिः ॥ २१ ॥ सर्वान्नीनः सर्वान्नभोजी द्वे यः सर्वेषां वर्णानां अन्नानि भुंक्ते तस्य परमहंसादेः । गृघ्नः गर्धनः द्वे आकांक्षाशीलस्य । लुब्धः अभिलाषुकः तृष्णक् त्रीणि अभिलाषशीलस्य । “लुभ्यति स्म लुब्धः । अभिलष्यतीति अभिलाषुकः लष कांतौ कांतिरिच्छा । लषपतेत्युकञ् ।" पंचापि लुब्धस्येति केचित् । तृष्णजौ । लोलुपः लोलुभः द्वे अतितृष्णाशीलस्य । “ गर्हितं लुपति लोलुपः" ॥ २२ ॥ सोन्मादः । “ उन्मद इति सून्माद इति वा पाठः । सु अतिशयित उन्मादो ऽस्य ।" उन्मदिष्णुः द्वे उन्मादशीलस्य । अविनीतः समुद्धतः द्वे दुर्विनीतस्य । “न व्यनायि अविनीतः।" मत्तः शौंडः उत्कटः क्षीबः “ क्षीबन्निति नांतो ऽप्यस्ति" चत्वारि मत्तस्य । शुंडायां पानागारे भवः शौंडः । तत्र भवेत्यण् । शौंडो मत्ते च विख्याते इति विश्वः । “उत्कटस्तीब्रमत्तयोरिति हैमः ।” कामुकः कमिता अनुकः ॥ २३ ॥ कम्रः कामयिता अभीकः कमनः कामनः अभिकः नव कामुकस्य । अनु कामयते अनुकः । ३३ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy