SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [शद्रवर्गः १०] परिणायस्तु शारीणां समंतान्नयने ऽस्त्रियाम् ॥ अष्टापदं शारिफलं प्राणियूतं समाव्हयः ॥ ४६॥ उक्ता भूरिप्रयोगत्वादेकस्मिन्ये ऽत्र यौगिकाः॥ ताद्धादन्यतो वृत्तावूह्या लिंगांतरे ऽपि ते ॥४७॥ ॥इति शूद्रवर्गः॥ इत्यमरसिंहकृतौ नामलिंगानुशासने ॥ द्वितीयः कांडो भूम्यादिः सांग एव समर्थितः॥॥॥॥ शब्देन संबंधः । अष्टापदं शारिफलं द्वे शारीणामाधारस्य कोष्टकयुक्तस्य वस्त्रादेः "सारीपट इति ख्यातस्य ।” शारयस्तु काष्ठादिरचितो द्यूतोपकरणविशेषः सोंगटी इति लौकिकभाषायां प्रसिद्धः । प्राणिद्यूतं प्राणिनां मेषकुकुटादीनां द्यूतं मिथो युद्धलक्षणः क्रीडाविशेषः समाव्हयः । अप्राणिभिः कृतं यत्तु तल्लोके द्यूतमुच्यते । प्राणिभिः क्रियते यत्तु स विज्ञेयः समाव्हय इत्युक्तेः । एकम् ॥ ४६॥ अत्र केषांचिल्लिंगभेदविधानाभावात्प्राप्तमपूर्णवं परिहरति । उक्ता इति । अत्र शूद्रवर्गे यौगिकाः कुंभकारमालाकारप्रभृतयः शब्दाः काव्यपुराणादिषु पुंस्येव भूरिप्रयोगत्वात्प्रचुरप्रयोगदर्शनादेकस्मिन्नेव लिंगे उक्ता निर्दिष्टास्ते ऽन्यतो ऽन्यत्र स्त्रीत्वादिविशिष्टे विशिष्यवृत्तौ सत्यां ताद्धात् विशिष्टानां विशेष्यधर्मत्वाल्लिंगांतरे स्त्रीलिंगादावप्यूहनीयाः । अपिशब्दात् रूढा अपि करणकुलालादयो जातिवचनात् पुंसि स्त्रियां च वर्तते इति ज्ञेयम् । यस्यावयवशक्य एवार्थों बुध्यते स यौगिकः। यस्यावयवशक्तिमनपेक्ष्य समुदायशक्तिमात्रेणार्थो बुध्यते स रूढः । तत्र यौगिको लिंगांतरे । यथा कुंभकारी स्त्री । कुंभकारं कुलम् । एवं मालाकारी । मालाकारम् । अणंतत्वास्त्रियां ङीष् । अयौगिको यथा । करणी । कुलाली । अत्र जातेरस्त्रीविषयादिति ङीष् ॥ ४७॥ ॥ इति शूद्रवर्गः ॥ ॥श्रीमत्यमरविवेके महेश्वरेण विरचित एवायं भूम्यादिद्वितीयः कांडः समाप्तः ॥७॥ ॥७॥ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy