SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९] हितीयं कांडम्. २३३ पादस्तुरीयो भागः स्यादंशभागौ तु वंटके ॥ ८९ ॥ द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु ॥ हिरण्यं द्रविणं द्युम्नमथैरैविभवा अपि ॥ ९० ॥ स्यात्कोश हिरण्यं च हेमरूप्ये कृताकृते ॥ ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्वयमाहतम् ।। ९१ ॥ गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः || शोणरत्नं लोहितकः पद्मरागो ऽथ मौक्तिकम् ॥ ९२ ॥ मुक्ताऽथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम् ।। 1 श्चतुष्टयम् । चत्वारः कुडवाः प्रस्थश्चतुष्प्रस्थं तथाढकम् । अष्टाढको भवेद्रोणो द्विद्रोणः शूर्प उच्यते । सार्धशूर्पो भवेत्खारी द्विशूर्पा द्रोण्युदाहृता । तमेव भारं जानीयाद्वाहो भारचतुष्टयमिति । “अन्यच्च । अष्टमुष्टि भवेत्किंचित्किचिदष्टौ तु पुष्कलम् । पुष्कलानि तु चत्वारि आढकः परिकीर्तितः । चतुराढको भवेद्रोण इत्येतन्मानलक्षणमित्युक्तम् ।" अत्र पलादित्रयं अभिन्नम् । तत्तद्देशभेदात्संख्यान्यथात्वं च । यथा मगधदेशे । द्रोणस्तु खार्याः खलु षोडशांशः स्यादाढको द्रोणचतुर्थभाग इत्यादि । रूपकाश्चतुर्थभागः पाद इत्युच्यते एकं " पायली इत्यादि ख्यातस्य " अंशः भागः वंटकः त्रीणि भागमात्रस्य " वांटा इति ख्यातस्य " ॥ ८९ ॥ द्रव्यं वित्तं स्वापतेयं रिक्थं ऋक्थं धनं वसु हिरण्यं द्रविणं द्युम्नं अर्थः राः विभवः त्रयोदश धनस्य । तत्र अर्थादित्रयं पुंसि । रा द्वयोर्विभवे स्वर्णे इति रुद्रः । रायौ राथः ॥ ९० ॥ कोशः हिरण्यं द्वे अपघटिताघटितयोर्हेमरूप्ययोः । कोशस्तालव्यांतो मूर्द्धन्यांतो वा । ताभ्यां हेमरूप्याभ्यां यदन्यत्ताम्रादिकं तत्कुप्यं स्यात् । एकम् । कुप्यं न्हस्वादि गुपेरादेः कुत्वं च संज्ञायामित्यनेन गकारस्य ककारः । अर्थाद्धिरण्यमरूप्यं च कुप्यं तद्वयं कुप्यमकुप्यं च आहतं “मुद्रितं चेत्" रूप्यं “ एकं नाणें इति ख्यातस्य ।" रूपमाहन्यते ऽस्य रूप्यम् । रूपादाहत इति यपू । रूप्यं स्यादाहतस्वर्णरजतं रजते पि चेति विश्वः ॥ ९१ ॥ गारुत्मतं मरकतं अश्मगर्भः हरिन्मणिः चत्वारि पाच इति प्रसिद्धस्य मणेः । शोरत्नं लोहितकः पद्मरागः त्रीणि पद्मरागस्य " माणीक इति ख्यातस्य । मौक्तिकं ॥ ९२ ॥ मुक्ता द्वे " मोती इति प्रसिद्धस्य ।" मुच्यते शुक्तिभिर्मोक्तिकम् । विद्रुमः प्रवालः “ द्वे पोंवळें इति ख्यातस्य । क्लीबे प्रवालम् । ” रत्नं मणिः 99 ३० Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy