SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २२८ सटीकामरकोशस्य वैश्यवर्गः चिरप्रसूता वष्कयणी धेनुः स्यान्नवसूतिका ॥ सुव्रता सुखसंदोह्या पीनोनी पीवरस्तनी ॥ ७१ ॥ द्रोणक्षीरा द्रोणदुग्धा धेनुष्या बंधके स्थिता ॥ समांसमीना सा यैव प्रतिवर्ष प्रसूयते ॥ ७२॥ ऊधस्तु क्लीवमापीनं समौ शिवककीलकौ ॥ न पुंसि दाम संदानं पशुरज्जुस्तु दामनी ॥७३॥ वैशाखमंथमंथानमंथानो मंथदंडके ॥ कुठरो दंडविष्कंभो मंथनी गर्गरी समे ॥ ७४॥ लेन प्रसूतायाः । धेनुः नवसूतिका द्वे नूतनप्रसूतायाः । सुव्रता सुखसंदोह्या “सुखसंदुह्येत्यपि" द्वे सुशीलायाः “मिसकीन इति ख्यतायाः" । पीनोनी पीवरस्तनी द्वे स्थूलस्तन्याः ॥ ७१ ॥ द्रोणक्षीरा द्रोणदुग्धा द्वे द्रोणपरिमित दुग्धदाच्याम् । बंधकं आधिस्तत्र स्थिता ऋणशुद्धिपर्यंत उत्तमर्णगृहे दोहनार्थं स्थापितेति यावत् सा धेनुष्या एकम् । बंधकं स्याद्विनिमय इति विश्वः । बंधकं आधिर्नाम गाहाण इति लौकिकभाषायाम् । या वर्षे वर्षे प्रसूयते सा समांसमीनेत्येकं पंचाक्षरम् ॥७२॥ ऊधः आपीनं द्वे गोस्तनस्य “कांस इति ख्यातस्य ।” ऊधः सांत क्लबिम् । शिवकः कीलकः द्वे गवां बंधनार्थं निखातस्य काष्टस्य " मेढ इति ख्यातस्य" । दाम संदानं द्वे बंधनरज्जोः “ दावें इति ख्यातायाः ।" संदीयते बध्यते ऽनेन संदानम् । दाम नांतम् । स्त्रियां तु दामा दामानौ । पशुरज्जुः दामनी "बंधनीत्यपि पाठः" द्वे यस्यामेकस्यां बहुग्रंथियुतायां बहवो वृषा बध्यंते तस्या रज्जोः “ दावण इति ख्यातायाः ।" चरणपाशस्येत्येके ॥ ७३ ॥ वैशाखः मंथः मंथानः मंथाः मंथदंडकः पंच मंथनदंडस्य "रवी इति ख्यातस्य ।" मंथाः मंथानौ । कुठरः । “कुटर इति पाठे तु कुट कौटिल्ये बाहुलकादरः ।" दंडविष्कंभः द्वे यत्र मंथदंडो बध्यते तस्य स्तंभस्य “घुसळखांब इति ख्यातस्य ।" मंथनी गर्गरी द्वे मध्यमानदधिपात्रस्य । मंथते ऽस्यां मंथनी । कलशीत्यपि पाठः ।७४ ॥ उष्ट्रः क्रमेलकः मयः महांगः चत्वारि उष्ट्रस्य । उष्ट्रस्य शिशुः करभ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy