SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २२६ सटीकामरकोशस्य [वैश्यवर्गः आर्षभ्यः पंडतायोग्यः पंडो गोपतिरिट्चरः ॥ ६२ ॥ स्कंधदेशे त्वस्य वहः साना तु गलकंबलः॥ स्यान्नस्तितस्तु नस्योतः पृष्ठवाड् युगपार्श्वगः ॥६३॥ युगादीनां तु वोढारो युग्यप्रासंग्यशाकटाः॥ खनति तेन तदोढा ऽस्येदं हालिकसैरिकौ ॥ ६४ ॥ धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः॥ उभावकधुरीणैकधुराकधुरावहे ॥६५॥ स तु सर्वधुरीणः स्याद्यो वै सर्वधुरावहः॥ माहेयी सौरभेयी गौरुसा माता च शृंगिणी॥६६॥ गोपतिः इट्चरः “इत्वर इत्यपि" त्रीणि स्वेच्छाचारिणो वृषभस्य पोळ इति ख्यातस्य । षणोति ददाति गर्भ षंडः। इषा इच्छया चरति इट्चरः ॥ १२ ॥ अस्य वृषभस्य स्कं'धदेशे वहः स्यात् एकं "खांदा इति ख्यातस्य ।" सास्ना गलकंबलः । द्वे गोः कंठे लंबमानस्य चर्मणः “ सांकळी, कांबळ इति ख्यातस्य" । नस्तितः नस्योतः “नस्तोत इत्यपि पाठः" द्वे स्यूतनासिकस्य "वेसण्या बैल इति ख्यातस्य ।" नस्ये नासारंधे ऊतः रज्ज्वा प्रोतः नस्योतः । प्रष्टवाट “पष्टवाडिति रेफरहितमिति स्वामी ।" युगपार्श्वगः द्वे दमनार्थ युग्येन सह स्कंधे बद्धकाष्ठस्य । युगस्य स्कंधकाष्ठस्य पार्श्व गच्छतीति युगपार्श्वगः ॥ ६३ ॥ युगस्य वोढा युग्यः । वत्सानां दमनकाले स्कंधे काष्टमासज्यते स प्रासंगः तस्य वोढा प्रासंग्यः " लोढण्या बैल इति ख्यातः ।" शकटस्य वोढा शाकटः एकैकम् । तेन खनतीत्याद्यर्थे हालिकः सैरिकश्च स्यात् । यथा हलेन खनति हालिकः । एवं हलस्य वोढा हलस्यायं वा हालिकः । एवं सीरेण खनति सीरस्य वोढा सीरस्यायं वा सैरिकः । सीरो हलस्य पर्यायः द्वे “ नांगऱ्या बैल इति ख्यातस्य" ॥६४ ॥ धूर्वहः धुर्यः धौरेयः धुरीणः धुरंधरः । धुरंधरेण सहिताः सधुरंधराः एते पंच शब्दाः धुरंधरवृषभस्य वाचकाः । “धूर्वहशब्दो दीर्घादिः । ऊरुपधाया इति दीर्घः" ॥ एकधुरीणः एकधुरः एकधुरावहः त्रयं य एकामेव धुरं वहति तस्य ॥६५॥ यः सर्वामपि धुरं वहति स सर्वधुरीणः एकम् । माहेयी सैरभेयी गौः उना For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy