SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. २०९ आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥ १॥ स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः॥ सेवा श्ववृत्तिरनृतं कृषिउंछशिलं त्वृतम् ॥ २॥ हे याचितायाचितयोर्यथासंख्यं मृतामृते ॥ सत्यानृतं वणिग्भावः स्यादणं पर्युदंचनम् ॥ ३॥ उद्धारो ऽर्थप्रयोगस्तु कुसीदं वृद्धिजीविका ॥ याञयाप्तं याचितकं निमयादापमित्यकम् ॥ ४ ॥ भेदा इत्यर्थः । कृषिगोरक्षवाणिज्यं वैश्यकर्म स्वभावजमिति महाभारते भगवद्गीतायाम् । अथ मृतामृताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्त्या कथंचनेत्यादिस्मृत्युक्तान्वृत्तिभेदान्व्युत्पादयति । सेवा परचित्तानुवर्तनं सा श्ववृत्तिः । “ शुनो वृत्तिरिव शुन इव वृत्तिर्वा । शुनो वृत्तिः स्मृता सेवा गर्हितं तद्विजन्मनाम् । हिंसादोषप्रधानत्वादनृतं कृषिरुच्यते इत्युक्तम्।” श्ववृत्तिर्नीचसेवनमिति श्रीभागवते । एकम् । कृषिः कर्षणं तदनृतं स्यात् । अनृतं कर्षणं स्मृतमिति स्मृतः । “प्रनृतमिति कचित्पाठः । प्रनृतं कर्षणं स्मृतमिति मनूक्तेः ।" एकम् । उंछश्च शिलं च उंछशिलं समाहारद्वंद्वः । आपणादौ पतितकणानामेकशो प्रहणमुंछः । क्षेत्रादौ स्वामित्यक्तकणिशानां ग्रहणं शिलम् । एतद्वयं ऋतमित्युच्यते । "उंछः कणश आदानं कणिशाद्यर्जनं शिलमिति यादवः । पुमानुछ: शिलं त्वृतमिति बोपालितः ।" एकम् ॥ २॥ याचिते प्रत्यहं तंडुलादियाच्यायां मृतमित्येकम्।मृतं तु नित्ययाच्या स्यादित्युक्तेः अयाचिते अजगरवर्तनवद्याच्यां विनैव लब्धे अमृतमित्येकम् । वणिग्भावो वाणिज्यं क्रयविक्रयादि तत्सत्यानृतं स्यात् एकम् । किंचित्सत्यं किंचिदसत्यं सत्यानृतम् । ऋणं पर्युदंचनम् ॥३॥ उद्धारः त्रयमृणस्य । "उद्धारश्चोद्धृतावृण इति विश्वः ।" अर्थप्रयोगः कसीदं "कशीदं कुषीदं चेत्यपि ।" वृद्धिजीविका त्रीणि ऋणसंबंधिकालांतरद्रव्येण लोके "व्याज इति ख्यातेन" जीविकायाम् । याच्या यदाप्तं तद्याचितकं “ एकं जायां आणलेला जायजाणा जिन्नस इति ख्यातस्य । निमयात्परिवर्तादाप्तं आपमित्यकम् । अपमित्य आप्तं " अपमित्ययाचिताभ्यां ककनौ । परिवर्तो विनिमय इति मेदिनी ।" निमयः परिवर्तः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy