SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ब्रह्मवर्ग: शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥ नियमस्तु स यत्कर्म नित्यमागंतुसाधनम् ॥१९॥ “क्षौरं तु भद्राकरणं मुंडनं वपनं त्रिषु ॥" उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे ॥ प्राचीनावीतमन्यस्मिन्निवीतं कंठलंबितम् ॥ ५० ॥ अंगुल्यग्रे तीर्थ दैवं स्वल्पांगुल्योर्मूले कायम् ॥ मध्येऽगुष्ठांगुल्योः पित्र्यं मूले त्वंगुष्ठस्य ब्राह्मम् ॥ ५१ ॥ स्थाब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥ देवभूयादिकं तद्वत्कृछं सांतपनादिकम् ॥ ५२ ॥ रमात्रेण साध्यं नित्यं यत्कर्म तद्यमः । आह च । अहिंसा सत्यमस्तेयं ब्रह्मचर्यपरिग्रहौ । यमा इति एकम् । यत्कर्म आगंतु साधनं आगंतुबाह्यं साधनं यत्र तत् । मृज्जलादिना साध्यमित्यर्थः । नित्यं कृत्रिमं यत्कर्म स नियमः । यदाह । शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधाना नियमा इति । एकम् । “ क्वचित्पुस्तके क्षौरंतु इत्यादि दृश्यते तदनत्यं नेत्युपेक्षितम् । क्षौरादिचतुष्कं मुंडनस्येत्युपेक्षितसंग्रहः।” ॥४९॥ दक्षिणे करे प्रोद्धृते सति यहह्मसूत्रं तदुपवीतं स्यात् एकम् । अन्यस्मिन्वामे करे प्रोद्धृते प्राचीनावीतं स्यात् एकम् । कंठे लंबितं ऋजुभावेन विन्यस्तं तत् ब्रह्मसूत्रं निवीतमित्येकम् ॥५०॥अंगुलीनामने दैवं तीर्थं ज्ञेयम् । अतो दैवतीर्थेन तर्पयेदित्यत्रांगुल्यग्रेणेति बोध्यम् । स्वल्पांगुल्योरनामिकायाः कनिष्ठिकायाश्च मूले कायम् । कः प्रजापतिर्देवताऽस्य कार्य प्राजापत्यमित्यर्थः । अंगुष्ठतर्जन्योर्मध्यभागे पित्र्यम् । “पैयमित्यपि पैत्रमिति च"। अंगुष्टस्य मूले तु ब्राझं तीर्थम् । यद्याज्ञवल्क्यः । कनिष्ठातर्जन्यंगुष्ठमूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् । एकैकम् ॥५१॥ ब्रह्मभूयादि त्रयं ब्रह्मभावस्य । ब्रह्मणो भावः ब्रह्मभूयम्"। तद्वत् देवभूयं देवत्वं देवसायुज्यमिति त्रयं देवभावस्य । सांतपनादिकं कृळू स्यात् एकम्। तदुक्तम् । गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृळू सांतपनं स्मृतमिति । आदिना प्राजापत्यादिग्रहः ॥ १२ ॥ संन्यासपूर्वके भोजन For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy