SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५० सटीकामरकोशस्य [मनुष्यवर्गः पादांगुदं तुलाकोटिमजीरो नूपुरो ऽस्त्रियाम् ॥ १०९॥ हंसकः पादकटकः किंकिणी क्षुद्रघंटिका ॥ वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु ॥ ११०॥ वालं क्षौमादि फालं तु कार्पासं बादरं च तत् ॥ कौशेयं कृमिकोशोत्थं रांकवं मृगरोमजम् ॥ १११॥ अनाहतं निष्प्रवाणि तंत्रकं च नवांबरम् ॥ तत्स्यादुद्मनीयं यद्धौतयोर्वस्त्रयोर्युगम् ॥ ११२॥ पत्रोण धौतकौशेयं बहुमूल्यं महाधनम् ॥ षोडश ज्ञेया कलापः पंचविंशक इति भेदास्त्विह नोक्ताः।” शृंखलमित्येकं पुंसः कटिभूषणस्य " कडदोरा इति ख्यातस्य ।” शृंखला शृंखलः पादांगुदं तुलाकोटि: "तुलाकोटी" मंजीरः “ मंजील: " नूपुरः ॥ १०९ ॥ हंसकः पादकटकः षटं नपुरस्य "तोरड्या पैजण इति ख्यातस्य । हंसकादिद्वयं पादकटकस्य वाळे इति ख्यातस्येति मतम् ।" तुलाकोटिः स्त्री। मंजीरो न स्त्रियाम् । किंकिणी "किंकिणिः कंकणी । कंकणः स्यात्प्रतिसरः कंकणी क्षुद्रघंटिकेति भागुरिः ।” क्षुद्रघंटिका द्वे घागरी “धुगुर” इति ख्यातायाः । त्वगादिचतुष्कं वस्राणां योनिः कारणम् । कारणचातुर्विध्यात् वस्त्राणां चातुर्विध्यमिति भावः । क्षौमादित्येतद्विना वाल्कफालादयो निष्प्रवाण्यंता दश त्रिषु । तंत्रकं चेति चकारादेकादशं तंत्रकं च त्रिषु । वक्ष्यमाणदुकूलसाहचर्यात्क्षौमं क्लीबमेव । त्रिष्वित्येके ॥ ११०॥ त्वगादिजन्यादिक्रमेणाभिहितानि । क्षौमादिवत्रं वाल्कं ज्ञेयम् । क्षुमा अतसी तद्विकारः क्षौमम् । आदिना शाणमित्यादि एकं त्वङ्मयस्य । फालं कार्पासं बादरं त्रीणि फलविकारस्य कार्पासवस्त्रस्य । कृमीणामपाननिर्गतसूत्रकृतः कुड्डलाकारः कोशः कृमिकोशस्तस्मादुत्वं कौशेयं स्यात् । मृगरोमजं वस्त्रं रांकवामित्येकम् । " अत्र मृगशब्देन पशुमानं ग्राह्यं तेन कंबलाद्यपि " ॥१११ ॥ अनाहतं निष्प्रवाणि तंत्रकं ।तंत्रादचिरापहृतम् । नवांबरं चत्वारि नूतनवस्त्रस्य कोरे वस्त्र इति प्रसिद्धस्य । निर्गता प्रवाणी तंतुवायशलाका ऽस्मात् निष्पवाणि । धौतयोर्वस्त्रयोर्युगं यत्तदुद्गमनीयमित्येकम् । “ युगमित्यविवक्षिप्तम् ” ॥ ११२॥ यद्वौतं कौशेयं For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy