SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम् १४५ प्रच्छार्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः॥ ५५ ॥ व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगंदराः॥ "श्लीपदं पादवल्मीकं केशप्नस्त्विदलुप्तकः” अश्मरी मूत्रकृछं स्यात्पूर्वे शुक्रावधेस्त्रिषु ॥ ५६ ॥ रोगहार्यगदंकारो भिषग्वैद्यौ चिकित्सके ॥ वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात् ॥ ५७॥ ग्लानग्लास्नू आमयावी विकृतो व्याधितो ऽपटुः॥ आतुरो ऽभ्यमितो ऽभ्यांतः समौ पामनकच्छुरौ ॥५०॥ कारप्हस्वो ऽपि ।” प्रच्छर्दिका वमिः “वमी वम इति पुल्लिंगोऽपि" वमथुः त्रीणि वमनरोगस्य । तत्राद्यं द्वयं स्त्रियाम् । वमथुः पुंसीत्यर्थः । समाः समानार्थाः॥५५॥ अथ व्याधिभेदा वक्ष्यते । विद्रधिरुदरादौ गंडभेदः । विद्रं दधातीति विद्रधिः त्रियाम् । “ आदिशब्देन कपालकर्णप्रमेहानां पिटका ज्ञेयाः ।" ज्वरः प्रसिद्धः। मेहति मूत्रयते ऽनेन मेहः । स च रक्तमेहः शुभ्रमेह इत्यादिभेदेन बहुविधः । भगंदरो गुह्यसमीपे विस्फोटविशेषः । “श्लीपदं पादवल्मीकं । पादयोः वल्मीकमिव रोग उत्पद्यते ॥ द्वयं श्लीपदरोगस्य वारुळ इति ख्यातस्य । केशनः इंद्रलुप्तकः द्वयं मस्तककेशरोगस्य चाई इति प्रसिद्धस्य ।" अश्मरी मूत्रकृछं द्वे अश्मयोः।। अश्माकारं शुक्रं राति ददातीत्यश्मरी)। स्यादित्यनेन मूत्रकृछमित्यश्मर्याः पर्याय इति सूचितम् । मूत्रविघ्नमात्रे मूत्रकृमिति नायमश्मर्याः पर्याय इति केचित् । इतः परं शुक्रावधेः वक्ष्यमाणात् शुक्रशब्दात्पूर्वे मूर्छितांतास्त्रिषु वाच्यलिंगा इत्यर्थः ॥ ५६ ॥ रोगहारी अगदंकारः भिषक् वैद्यः चिकित्सक: पंच वैद्यस्य । रोगहारिणौ । भिषजौ । वार्तः निरामयः कल्यः त्रीणि रोगरहितस्य । कल्यस्तालव्यांतः। "कल्यं प्रभाते मधुनि सज्जे दत्ते निरामये । कल्या कल्याणवाचि स्यादिति हैमः।" उल्लांघ इत्येकं रोगान्मुक्तास्य । अयमपि पूर्वस्यैव पर्याय इत्येके ॥५७ ॥ ग्लानः ग्लास्नुः द्वे रोगादिवशात् हर्षरहितस्य । आमयावी विकृतः व्याधितः अपटुः आतुरः अभ्यमितः अभ्यांत: सप्तकं रोगिणः । पामनः कच्छुर: द्वे पामायु. क्तस्य ॥ ५८ ॥ दगुणः “दद्रूणः दर्दुणः दर्दूणः" ददुरोगी दे ददुयुक्तस्य : १९ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy