SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ° www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ वनौषधिवर्गः उन्मत्तः कितवो धूर्तो धतूरः कनकाव्हयः ॥ ७७ ॥ मातुलो मदनश्वास्य फले मातुलपुत्रकः ॥ फलपूरी बीजपूरो रुचको मातुलुंगके ॥ ७८ ॥ समीरणो मरुवकः प्रस्थपुष्पः फणिज्जकः ॥ जंबीरो ऽप्यथ पर्णासे कठिंजर कुठेरकौ ॥ ७९ ॥ सिते ऽर्जको ऽत्र पाठी तु चित्रको वन्हिसंज्ञकः ॥ अर्काव्हवर्सुकाऽऽस्फोटॅगणरूपविकीरणाः ॥ ८० ॥ मंदारार्कपर्णो ऽत्र शुक्ले ऽलर्क प्रतापसौ ॥ शिवमल्ली पाशुपत एकाष्ठीलो बुँको वसुः ॥ ८१ ॥ धूस्तूरः धुतूरः । धुस्तुरस्तु पुंडरीशों धुस्तुरः कनकाव्हय इति शब्दार्णवः । उन्मत्त उन्मादवति धुत्तरमुचुकुंदयोरिति विश्वप्रकाशः । मदनः स्मरवसंतद्रुमिधूस्तूर सिक्थक इति मेदिनी । " कनकाव्हयः ॥ ७७ ॥ मातुलः मदनः सप्तकं धत्तूरस्य धोतरा इति ख्यातस्य । कनकाव्हयः स्वर्णपर्यायनामकः । अस्य धत्तूरस्य फले मातुलपुत्रक इत्येकम् । फलपूर: बीजपूर: रुचकः मातुलुंगकः चत्वारि मातुलिंगस्य महाळुंग इति ख्यातस्य ॥ ७८ ॥ समीरणः मरुबक: प्रस्थपुष्पः फणिज्जकः जंबीरः “ जंभीरः " पंच देशांतरे जंबीर इति ख्यातस्य । स्वल्पपर्णस्य पर्णासभेदस्य । " श्वेतमरवा इति च ख्यातस्य । " पर्णासः कठि जरः कुठेरकः त्रीणि पर्णासस्य “ आजवलेति बावरी इति च ख्यातस्य । ॥ ७९ ॥ अत्र पर्णासे सिते कांडपुष्पाभ्यां श्वेते अर्जक इत्येकम् । पाठी चित्रकः वन्हिसंज्ञकः त्रयं चित्रकस्य चिता इति ख्यातस्य । तत्र पाठी इनंतः । वन्हिसंज्ञको वन्हिपर्यायनामकः । अर्काव्हः वसुकः " वसूकः " आस्फोट: " आस्फोतः । आस्फोतस्तु पुमानर्के पर्णे स्यात्कोविदारक इति मेदिनी । " गणरूपः । गणाः बहूनि रूपाणि यस्य । नानात्वात् । विकीरणः “ विकिरणः " ॥ ८० ॥ मंदारः अर्कपर्णः सप्तकं अर्कस्य रुई इति ख्यातस्य । अर्काव्हयः सूर्यपर्यायनामकः । अत्रा शुक्ले अलर्कः प्रतापनः इति द्वे । शिवमल्ली पाशुपतः एकाष्ठीलः बुक: बकः । वस्तु बकपुष्पे स्यात्कट्टे श्रीदे च रक्षसीति विश्वप्रकाशः । 99. 46 For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy