SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१४ Acharya Shri Kailassagarsuri Gyanmandir अमरकोषे अभिप्रायवश छन्दावन्दी जीमूतवत्सरौ अपवादौ तु निन्दाज्ञे दायादौ सुतबान्धवी पादा रश्म्यङ्गितुर्याशाश्चन्द्राग्यकोस्तमोनुदः निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः आवे रुदिते त्रातर्याक्रन्दो दारुणे रणे स्यात्प्रसादोऽनुरागेऽपि सूदः स्याद्व्यञ्जनेऽपि च गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत् पदं व्यवसितित्राणस्थानलक्ष्माङ्गिवस्तुषु गोष्पदं सेविते माने प्रतिष्ठा कृत्यमास्पदम् [ ५. नानार्थवर्ग: २५११ २५१२ २५१३ २५१४ २५१५ २५१६ २५१७ २५१८ २५१९ २५२० २५२१ २५२२ माणमेदः प्रस्थः । अभिप्राय आशयः । वशोऽधीन छन्दः । जीमूतो मेघः । वत्सरो वर्षम् । तत्र अब्दः । निन्दा गर्हा । आशा शासनं तत्रापवादः । पुत्रो ज्ञातिश्च दायादौ । रश्मिः किरणः, अतिचरणः, तुर्यांशश्चतुर्थो भागः पादः । चन्द्रे अग्नौ अर्के च तमोनुद् । जनवादे लोकापवादे, 'अपि शब्दान्निर्णीतवादे निर्वादः । कर्दमे । बालतृणे च शादः । आरावे आर्तध्वनौ । त्रातरि रक्षके दारुणे रणे भीषणे युद्धे रुदिते च आक्रन्दः । अनुरागेऽनुग्रहे, प्रसन्नतायां काव्यगुणे च प्रसादः । व्यञ्जने तेमने सूपकारे च सूदः । गोष्ठं गोस्थानं तस्याध्यक्षे गोपालादौ वृहस्पतौ कृष्णेऽपि गोविन्दः । आमोदशब्दो यथा हर्षे वर्तते 'अपि’शब्दादतिनिर्ह्रारिगन्धे च तथा मदोऽपि हर्षे । 'अपि शब्दाद्दर्व गजदान रेतस्सु च । प्रधानमेव प्राधान्यम् । राजलिङ्गे छत्रादौ वृषावयवे ककुदः । संभाषा संभाषणम् । क्रियाकारः कर्मनियमः, आजिर्युद्धम्, नाम संज्ञा, एतेषु संकेते च स्त्रीलिङ्गं संविदिति नाम । धर्मे रहसि वेदान्ते च उपनिषद् । ऋतौ वत्सरे च शरद् । व्यवसितिर्व्यवसायस्ततो वस्त्वन्तेषु पदम् । सेविते गोभिरेव सेविते देशे माने खुरप्रमाणे गोष्पदम् । प्रतिष्ठा स्थानम् । कृत्यं कार्यम् । प्रतिष्ठाकृत्ये 1 For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy