SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पङ्कयः २०३३-२०५७ ] तृतीयं काण्डम् इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः अधिकर्द्धिः समृद्धः स्यात् कुटुम्बव्यापृतस्तु यः स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् वराहरूपोपेतो यः सिंहसंहननो हि सः निर्वार्यः कार्यकर्ता यः संपन्नः सत्त्वसंपदा अवाचि मूकोऽथ मनोजवसः पितृसंनिभः सत्कृत्यालंकृतां कन्यां यो ददाति स कूकुदः लक्ष्मीवाँलक्ष्मणः श्रीलः श्रीमान्स्निग्धस्तु वत्सलः स्यादयालुः कारुणिकः कृपालुः सूरतः समाः स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः परतन्त्रः पराधीनः परवान्नाथवानपि अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ For Private and Personal Use Only १७५ २०४५ २०४६ २०४७ २०४८ २०४९ २०५० २०५१ २०५२ २०५३ २०५४ २०५५ २०५६ २०५७ इभ्यः, आढ्यः, धनी, इति ३ धनिनः ॥ - स्वामी, ईश्वरः पतिः, ईशिता, अघिनूः, नायकः, नेता, प्रभुः, परिवृढः, अधिपः, इति १० प्रभोः ॥ - अधिकर्द्धिः, समृद्धः, इति २ सुसंपन्नस्य ॥ कुटुम्बव्यापृतः, अभ्यागारिकः, उपाधिः, इति ३ कुटुम्बपोषणादिव्यापारयुक्तस्य । वरैरङ्गरूपैरुपेतो यः स सिंहसंहनन इति १ ॥ यः सत्त्वसंपदा संपन्नः सन् कार्यं करोति स निर्वार्य इति १ ॥ -- अवाक्, मूकः, इति २ मूकस्य ॥ - मनोजवसः, पितृसन्निभः, इति २ पितृतुल्यस्य । आदरपूर्वकमलंकृतां कन्यां यो ददाति स कूकुद इति १ ॥ - लक्ष्मीवान्, लक्ष्मणः, श्रीलः, श्रीमान् इति ४ लक्ष्मीवतः ॥ - स्निग्धः, वत्सलः, इति २ स्नेहयुक्तस्य ॥ - दयालुः कारुणिकः, कृपालुः, सूरतः, इति ४ दयाशीलस्य ॥ स्वतन्त्रः, अपावृतः, खैरी, स्वच्छन्दः, निरवग्रहः, इति ५ स्वच्छन्दस्य ॥ - परतन्त्रः, पराधीनः, परवान्, नाथवान् इति ४ पराधीनस्य ॥ - अधीनः, निघ्नः, आयतः, अस्वच्छन्दः, गृह्यकः इति ५ " ,
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy