SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४ अमरकोषे [३. विशेष्यनिघ्नवर्गः वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि २०३३ पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः २०३४ दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि २०३५ स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे २०३६ जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् २०३७ परीक्षकः कारणिको वरदस्तु समर्धकः २०३८ हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः २०३९ दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः २०४० दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि २०४१ तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः २०४२ प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः २०४३ गुणैः प्रतीते तु कृतलक्षणाहतलक्षणी २०४४ कृती, कुशलः, इति १० प्रवीणस्य ॥-पूज्यः, प्रतीक्ष्यः, इति २ पूज्यस्य ॥सांशयिकः, संशयापन्नमानसः, इति २ संशयापनमानसस्य ॥--दक्षिणीयः, दक्षिणाः, दक्षिण्यः, इति ३ दक्षिणार्हस्य ॥ वदान्यः, स्थूललक्ष्यः, दानशोण्डः, बहुप्रदः, इति ४ दानशूरस्य ॥-जैवातृकः, आयुष्मान , इति २ आयुन्मतः ॥-अन्तर्वाणिः, शास्त्रवित् , इति २ शास्त्रज्ञस्य ॥ --परीक्षकः, कारणिकः, इति २ प्रमाणैरर्थ निश्चायकस्य ॥ वरदः, समर्धकः इति २ वराणां दातरि ॥ हर्षमाणः, विकुर्वाणः, प्रमनाः, हृष्टमानसः, इति ४ हृष्चेतसः ॥--दुर्मनाः, विमनाः, अन्तर्मनाः, इति ३ व्याकुलचेतसः ॥ -उत्कः, उन्मनाः, इति २ उत्कण्ठितस्य ॥–दक्षिणः, सरलः, उदारः, इति ३ सरलस्य ॥-दातृभोक्तरि सुकल इति १ ॥ तत्परः, प्रसितः, आसक्तः, इति ३ तत्परस्य ।।----इष्टार्थोद्युक्तः, उत्सुकः, इति २ अभिमतार्थे सोद्योगस्य ॥-प्रतीतः, प्रथितः, ख्यातः, वित्तः, विज्ञातः, विश्रुतः, इति ६ ख्यातस्य ॥-कृतलक्षणः, आहतलक्षणः, इति २ शौर्यादिभिः ख्याते ॥ For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy