SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोपे [११. शूद्रवर्गः क्षुरी मुण्डी दिवाकीर्तिनापितान्तावसायिनः १९४८ निर्णेजकः स्याद्रजकः शौण्डिको मण्डहारकः १९४९ जाबालः स्यादजाजीवो देवाजीवस्तु देवल: १९५० स्यान्माया शाम्बरी मायाकारस्तु प्रतिहारकः १९५१ शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः १९५२ भरता इत्यपि नटाश्चारणास्तु कुशीलवाः १९५३ मार्दङ्गिका मौरजिकाः पाणिवादास्तु पाणिघाः १९५४ वेणुध्माः स्युर्वैणविका वीणावादास्तु वैणिकाः १९५५ जीवान्तकः शाकुनिको द्वौ वागुरिकजालिको वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम् १९५७ भृतको भृतिभुक्कर्मकरो वैतनिकोऽपि सः वातावहो वैवधिको भारवाहस्तु भारिकः १९५९ दिवाकीर्तिः, नापितः, अन्तावसायी, इति ५ नापितस्य ॥--निर्णेजकः, रजकः, इति २ वस्त्राणां धावकस्य ॥-शौण्डिकः, मण्डहारकः, इति २ सुराजीविनः॥-जाबालः, अजाजीवः, इति २ अजापालस्य ।।—देवाजीवः, देवलः, इति २ देवसेवोपजीविनः ॥—माया, शाम्बरी, इति २ इन्द्रजालस्य ॥मायाकारः, प्रतिहारकः, इति २ मायाविनः ॥--शैलाली, शैलूषः, जायाजीवः, कृशाश्वी, भरतः, नटः, इति ६ नटानाम् ॥चारणः, कुशीलवः, इति २ कथकानाम्॥-मार्दनिकाः, मौरजिकाः, इति २ मृदङ्गवादनकुशलानाम् ॥ पाणिवादाः, पाणिघाः, इति २ पाणिवादानाम् ॥-वेणुध्माः, वैणविकाः, इति २ वेणुवादिनाम् ॥-वीणावादाः, वैणिकाः, इति २ वीणावादनं शिल्पमेषाम् ॥ जीवान्तकः, शाकुनिकः, इति २ पक्षिणां हन्तरि ॥वागुरिकः, जालिकः, इति २ जालेन मृगान्बनतः ॥ वैतंसिकः, कौटिकः, मासिकः, इति ३ मांसविक्रयजीविनः ॥-मृतकः, भृतिभुक, कर्मकरः, वैतनिकः, इति ४ वेतनोपजीविनः॥-वार्तावहः, वैवधिकः, इति २ वार्ताया वाहके ॥–भारवाहः, भारिकः, इति २ भारिकस्य ॥ विवर्णः, पामरः, For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy