SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पङ्क्यः १९२५ - १९४७ ] द्वितीयं काण्डम् स्थकारस्तु माहिष्यात्करण्यां यस्य संभवः स्याच्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः कुलकः स्यात्कुलश्रेष्ठी मालाकारस्तु मालिकः कुम्भकारः कुलालः स्यात् पलगण्डस्तु लेपकः तन्तुवायः कुविन्दः स्यात्तुन्नवायस्तु सौचिकः रङ्गाजीवश्चित्रकरः शस्त्रमार्जोऽसिधावकः पादूकुच्चर्मकारः स्याद्वयोकारो लोहकारकः नाडिंधमः स्वर्णकारः कलादो रुक्मकारकः स्याच्छाङ्गिकः काम्बविकः शौल्बिकस्ताम्रकुट्टकः तक्षा तु वस्त्विष्टा रथकारस्तु काष्ठतद् ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः १६५ For Private and Personal Use Only १९३६ १९३७ १९३८ १९३९ १९४० १९४१ १९४२ १९४३ १९४४ १९४५ १९४६ १९४७ करण्यां माहिष्याज्जातो रथकारः स्यात् १ | ब्राह्मण्यां वृषलेन य उत्पादितः स चण्डालः स्यात् १ ॥ -- कारुः, शिल्पी, इति २ चित्रकारादेः । तैः सजातिभिः संहतैः श्रेणिः १ स्त्रीपुंसयोः ॥ - कुलकः, कुलश्रेष्ठी, इति २ शिल्पिकुलप्रधानस्य ॥ -- मालाकारः, मालिकः, इति २ मालाकारस्य ॥ कुम्भकारः, कुलाल:, इति २ कुलालस्य ॥ - पलगण्डः, लेपकः, इति २ गृहादौ लेपकारस्य ॥ - तन्तुवायः, कुविन्दः, इति २ पटानां निर्मातरि ॥ तुन्नवायः, सौचिकः, इति २ कञ्चक्यादेर्निर्मातरि ॥ रङ्गाजीवः, चित्रकरः, इति २ चित्रकारस्य ॥ - शस्त्रमार्जः, असिधावकः, इति २ शस्त्रघर्षणोपजीविनः ॥ : ॥ - पादूकृत्, चर्मकार:, इति २ चर्मकारस्य ॥—व्योकारः, लोहकारकः, इति २ लोहकारस्य ॥ -- नाडिधमः, स्वर्णकारः, कलादः, रुक्मकारकः, इति ४ स्वर्णकारस्य ॥ - शाङ्खिकः, काम्बविकः, इति २ शङ्खवलयादेः कर्तरि ॥ -- शौल्बिकः, ताम्रकुट्टकः, इति २ ताम्रकुट्टकस्य ॥ -- तक्षा, वर्धकः, त्वष्टा, रथकारः, काष्ठतद, इति ५ वर्धकेः । प्रामाधीनो यस्तक्षा स ग्रामतक्षः इति १ । अनधीनकः कौटतक्षः स्यात ॥ क्षुरी, मुण्डी,
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy