SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४० Acharya Shri Kailassagarsuri Gyanmandir अमरकोषे स्यादुरस्वानुरसिलो रथिरो रथिको रथी कामंगाम्यनुकामीनो ह्यत्यन्तीनस्तथा भृशम् शूरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः सांयुगीनो रणे साधुः शस्त्राजीवादयस्त्रिषु ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमूः वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् व्यूहस्तु बलविन्यासो भेदा दण्डादयो युधि प्रत्यासारो व्यूहपाष्णिः सैन्यपृष्ठे प्रतिग्रहः एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका पत्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः अनीकिनी दशानीकिन्यक्षौहिण्यथ संपदि संपत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ आयुधं तु प्रहरणं शस्त्रमस्त्रमधास्त्रियों [ ९. क्षत्रियवर्गः १६१९ १६२० १६२१ १६२२ १६२३ For Private and Personal Use Only १६२४ १६२५ १६२६ १६२७ १६२८ १६२९ १६३० १६३१ १६३२ , उरखान्, उरसिलः, इति २ विशालवक्षसः ॥ - रथिरः, रथिकः, रथी, इति ३ रथस्वामिनः । यः कामंगामी सोऽनुकामीनः स्यात् १ | यो भृशंगामी सोऽत्यन्तीनः १ ॥ - शूरः, वीरः, विक्रान्तः, इति ३ शूरस्य ॥ जेता, जिष्णुः, जित्वरः, इति ३ जयनशीलस्य । रणे साधुः सांयुगीनः १| शस्त्राजीवादयः सांयुगीनान्तास्त्रिषु ॥ - ध्वजिनी, वाहिनी, सेना, पृतना, अनीकिनी, चमूः, वरूथिनी, बलम्, सैन्यम्, चक्रम्, अनीकम् इति ११ सेनायाः ॥ -- बलस्य युद्धार्थे विन्यासो व्यूह इति १ | युधि दण्डादयो व्यूहस्य मेदाः । प्रत्यासारः, व्यूहपाणिः, इति २ व्यूहपश्चाद्भागस्य ॥ - सैन्यपृष्ठः, प्रतिग्रहः, इति २ सेनायाः पश्चाद्भागस्य । एकेभा, एकरथा, त्र्यश्वा, पञ्चपदातिका, सेना पत्तिः स्यात् १ । पत्त्यङ्गैः त्रिगुणैर्यथोत्तरं क्रमात्सेनामुखादय आख्याः स्युः ॥ तद्यथा - सेनामुखम्, गुल्मः, गणः, वाहिनी, पृतना, चमूः, अनीकिनी, दशानीकिनी, अक्षौहिणी, इति ॥ - संपत, संपत्तिः, श्रीः, लक्ष्मीः, इति ४ संप्रदः ॥ विपत्तिः, विपत्, आपत्, इति ३ आपदः ॥ -- आयुधम् प्रहरणम्, शस्त्रम्, अस्त्रम् इति ४ शस्त्र
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy