SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतयः १५९२-१६१८] द्वितीयं काण्डम् स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः १६०६ याष्टीकपारश्वधिको यष्टिपर्श्वधहेतिको १६०७ नैस्त्रिंशिकोऽसिहेतिः स्यात्समौ प्रासिककौन्तिकौ १६०८ चर्मी फलकपाणिः स्यात् पताकी वैजयन्तिकः १६०९ अनुप्लवः सहायश्चानुचरोऽभिसरः समाः १६१० पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः १६११ पुरोगमः पुरोगामी मन्दगामी तु मन्थरः १६१२ जङ्घालोऽतिजवस्तुल्यौ जवाकारिकजाडिको १६१३ तरस्वी त्वरितो वेगी प्रजवी जवनो जवः १६१४ जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके १६१५ जैवस्तु जेता यो गच्छत्यलं विद्विपतः प्रति १६१६ सोऽभ्यमित्र्योऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि १६१७ ऊर्जस्वलः स्यादर्जस्वी य ऊर्जातिशयान्वितः १६१८ काण्डवान् , काण्डीरः, इति २ शरधारिणः ॥-शाक्तीकः, शक्तिहेतिकः, इति २ शक्त्यायुधधारिणः । यष्टिहेति को याष्टीकः । परश्वधः, परशुः हेतियस्य स पारश्वधिकः स्यात् १॥-असिः हेतिर्यस्य स नैस्त्रिंशिकः १॥प्रासिकः, कौन्तिकः, इति २ तत्तदायुधधारिणः । चर्मी, फलकपाणिः, इति २ चर्मधारिणः ॥ पताकी, वैजयन्तिकः, इति २ पताकां बिभ्रतः ॥-अनुप्लवः, सहायः, अनुचरः, अभिसरः, इति ४ अनुचरस्य ॥-पुरोगः, अग्रेसरः, प्रष्ठः, अग्रतः. सरः, पुरःसरः, पुरोगमः, पुरोगामी, इति ७ पुरोगामिनः ॥-मन्दगामी, मन्थरः, इति २ मन्थरस्य ॥-जङ्घालः, अतिजवः, इति २ अतिवेगवतः ॥-जङ्घाकरिकः, जाचिकः, इति २ जवाबलजीविनः ॥-तरखी, त्वरितः, वेगी, प्रजवी, जवनः, जवः, इति ६ त्वरितमात्रस्य ॥ यो जेतुं शक्यते स जय्यः जेय इति १ जेतव्यमात्रके १॥-जैत्रः, जेता, इति २ जेतुः। यो विद्विषतः प्रति अलं योद्धुं गच्छति स अभ्यमित्र्यः, अभ्यमित्रीयः, अभ्यमित्रीणः, इति ३ । य ऊर्जस्य पराक्रमस्यातिशयेन युक्तः स ऊर्जखलः, ऊर्जस्वी, इति २ ॥ For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy