SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२७ पतयः १४३७-१४६२ ] द्वितीयं काण्डम् नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम् 'क्षौरं तु भद्राकरणं मुण्डनं वपनं त्रिषु' उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् अङ्गल्यग्रे तीर्थ दैवं स्वल्पाङ्गल्योर्मूले कायम् मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गष्ठस्य ब्राह्मम् स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि देवभूयादिकं तद्वत्कृच्छ्रे सांतपनादिकम् संन्यासवत्यनशने पुमान्प्रायोऽथ वीरहा नष्टाग्निः कुहना लोभान्मिथ्येर्यापथकल्पना व्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः धर्मध्वजी लिङ्गवृत्तिरवकीर्णी क्षतव्रतः सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् १४५० *** १४५१ १४५२ १४५३ १४५४ १४५५ १४५६ १४५७ १४५८ १४५९ १४६० १४६१ १४६२ यत्कर्म तत् यमः,यत्कर्म आगन्तु बाह्यं साधनं नित्यं स नियमः । दक्षिणे करे प्रोद्धृते यद्ब्रह्मसूत्रं तदुपवीतं स्यात् १।अन्यस्मिन्वामे करे प्रोद्धृते प्राचीनावीतं स्यात् १ । कण्ठे लम्बितं तत् निवीतमिति१।अङ्गुलीनामग्रे दैवंतीर्थे ज्ञेयम्पाखल्पाङ्गुल्योरनामिकाकनिष्ठिकयोर्मूले कायम् १ । अङ्गुष्ठतजेन्योर्मध्यभागे पिम्पम् १ । अङ्गुष्ठस्य मूले तु ब्राझं तीर्थम् १। ब्रह्मभूयम् , ब्रह्मत्वम् , ब्रह्मसायुज्यम् , इति ३ ब्रह्मभावस्य॥ -तद्वत् देवभूयम् , देवत्वम् , देवसायुज्यम्, इति ३ देवभावस्य । सांतपनादिकं कृच्छ्रे स्यात् १।आदिना प्राजाप यादिग्रहः। संन्यासपूर्वके भोजनत्यागे प्राय इति १॥ -वीरहा, नष्टामिः, इति २ नष्टाग्ने लोभाद्या मिध्येयोपथकल्पना साकुहनेति १। संस्कारेणोपनयनेन हीनो व्रात्य इति १। अखाध्यायः निराकृतिः १॥-धर्मध्वजी, लिङ्गवृत्तिः, इति २ जीविका जटादिधारणवतः॥-अवकीर्णी, क्षतव्रतः, इति नब्रह्मचर्यस्य। अंशुमान रविः यस्मिन् सुप्तेऽस्तमेति सोऽभिनिर्मुकः।यस्मि For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy