SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२६ www.kobatirth.org अमरकोषे Acharya Shri Kailassagarsuri Gyanmandir तपः क्लेशहो दान्तो वर्णिनो ब्रह्मचारिणः ऋषयः सत्यवचसः स्नातकस्त्वाप्लुतो व्रती ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ स्थाण्डिलश्चाथ विरजस्तमसः स्युर्द्वयातिगाः पवित्रः प्रयतः पूतः पाखण्डाः सर्वलिङ्गिनः पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं वृषी अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम् स्वाध्यायः स्याज्जपः सुत्याऽभिषवः सवनं च सा सर्वैनसा मपध्वंसि जप्यं त्रिष्वघमर्षणम् दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक् शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः [ ८. ब्रह्मवर्गः १४३७ १४३८ For Private and Personal Use Only १४३९ १४४० १४४१ १४४२ १४४३ १४४४ १४४५ १४४६ १४४७ १४४८ १४४९ 1 काङ्क्षी, इति ३ तपोयुक्तस्य ॥ - वाचंयमः, मुनिः, इति २ वाग्यतस्य ॥ तपसः क्लेशेऽनुद्विग्नो दान्तः स्यात् १ ॥ - वर्णी, ब्रह्मचारी, इति २ ब्रह्मचारिणः ॥— ऋषिः, सत्यवचाः, इति २ ऋषिसामान्यस्य । यो व्रती आप्लुतः स स्नातक इत्युच्यते १ । निर्जितः स्ववशस्थ इन्द्रियसमूहो यैस्ते यतिनः, यतयः, इति २ ॥ यो नियमवशात् भूमिविशेषे शेते असौ स्थण्डिलशायी, स्थाण्डिलः, इति २ ॥ - विरजस्तमाः, द्वयातिगः, इति २ सवैकनिष्ठेषु व्यासादिषु ॥ - पवित्रः, प्रयतः, पूतः, इति ३ पवित्रस्य ॥ - पाखण्डः, सर्वलिङ्गी, इति २ बौद्धादिदुःशास्त्रवर्तिषु । व्रते ब्रह्मचारिणः पलाशसंबन्धी दण्ड आषाढ इत्युच्यते १ । वेणुसंबन्धी दण्डो राम्भ इति १ ॥ - कमण्डलुः, कुण्डी, इति २ व्रतिनां जलपात्रस्य । व्रातनां यदासनं सा ऋषी १ ॥ - अजिनम्, चर्म, कृत्तिः, इति ३ मृगादेश्वर्मणि । कृत्तिः स्त्रियाम् । भिक्षाणां समूहो भैक्षम् १ ॥ खाध्यायः, जपः, इति २ वेदाभ्यासस्य ॥ - सुत्या, अभिषवः, सवनम् इति ३ सोमामिषवस्य । सर्वैनसां नाशर्क जप्यम् १ | ऋगादि अघमर्षणं स्यात् १ । त्रिषु । पक्षान्तयोरमावास्यायां पौर्णमास्यां च विहितौ यागौ क्रमेण दर्शः, पौर्णमासञ्च स्याताम् २ । शरीरसाधनापेक्षं नित्यं
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy