SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ अमरकोषे [५. मनुष्यवर्गः केयूरमदं तुल्ये अङ्गुलीयकमूर्मिका साऽक्षराङ्गुलिमुद्रा स्यात् कङ्कणं करभूषणम् स्त्रीकव्यां मेखला काञ्ची सप्तकी रशना तथा क्लीबे सारसनं चाथ पुंस्कटयां शृङ्खलं त्रिषु पादाङ्गदं तुलाकोटिमञ्जीरो नूपुरोऽस्त्रियाम् हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका त्वक्फलकृमिरोमाणि वस्त्रयोनिर्देश त्रिषु वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत् कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम् अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरम् तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् पत्रोर्ण धौतकौशेयं बहुमूल्यं महाधनम् क्षीमं दुकूलं स्यावे तु निवीतं प्रावृतं त्रिषु १२८८ १२८९ १२९० १२९१ १२९२ १२९३ १२९४ १२९५ १२९६ १२९७ १२९८ १२९९ १३०० अङ्गदम् , इति २ प्रगण्डभूषणस्य ॥-अङ्गुलीयकम् , ऊर्मिका, इति २ अङ्गुल्याभरणस्य । ऊर्मिकैव रामनामाद्यक्षरयुता चेदङ्गुलिमुद्रा इति १। कङ्कणम् , करभूषणम् , इति २ मणिबन्धभूषणस्य ॥ मेखला, काञ्ची, सप्तकी, रशना, सारसनम्, इति .५ स्त्रीणां. कटिभूषणस्य। शृङ्खलमिति १ पुंसः कटि. भूषणस्य । त्रिषु स्त्रीपुनपुंसकेषु ॥--पादाङ्गदम् , तुलाकोटिः, मजीरः, नूपुरः, हंसकः, पादकटकः, इति ६ नपरस्य । तुलाकोटिः स्त्री। मजीरो न स्त्रियाम् ॥किङ्किणी, क्षुद्रघण्टिका, इति २ क्षुद्रघण्टिकायाः ॥ त्व, फलम् , कृमि, रोम, इति ४ वस्त्राणां योनिः॥-वाल्कफालादयो निष्प्रवाण्यन्ताः १० त्रिषु ॥वाल्कम् , क्षोम, फालम् , कार्पासम् , बादरम् , कौशेयम् , राधम्, इति ७ वस्त्रस्य ॥-अनाहतम् , निष्प्रवाणि, तन्त्रकम् , नवाम्बरम्, इति ४ नूतनवस्त्रस्य। धौतयोर्वस्त्रयोर्युगं यत्तदुवमनीयमिति १। यद्धोतं काशेयं तत् पत्रोणे इति १ बहुमूल्यं यद्वस्त्रादिकं तत् महाधनमिति १ । त्रिलिङ्गम् । क्षौनम् , दुकूलम् , इति २ For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy