SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पङ्कयः ७२७-७५२ ] द्वितीयं काण्डम् इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः पिच्छा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः चिरबिल्वो नक्तमालः करजश्च करञ्जके प्रकीर्यः पूतिकरजः पूतिकः कलिमारकः करञ्जभेदाः षड्ग्रन्थो मर्कट्यङ्गारवल्लरी रोही रोहितकः प्लीहशत्रुर्दा डिमपुष्पकः गायत्री बालतनयः खदिरो दन्तधावनः अरिमेो विखदिरे कदरः खदिरे सिते सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः चक्षुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः अल्पा शमी शमीरः स्याच्छमी सक्तुफला शिवा ७४० ७४१ ७४२ ७४३ ७४४ ७४५ ७४६ ७४७ ७४८ ७४९ ७५० ७५१ ७५२ इङ्गुदी, तापसतरुः, इति २ ईङ्गयाः ॥ - भूर्जः, चर्मी, मृदुत्वक्, इति ३ भूर्जवृक्षस्य ॥ - पिच्छिला, पूरणी, मोचा, स्थिरायुः, शाल्मलिः, इति ५ शौल्मल्याः । द्वयोः स्त्रीपुंसयोः ॥ - शाल्मल्या वेष्टे निर्यासे पिच्छा इति १ ॥ — रोचनः, कूटशाल्मलिः, इति २ कूटशाल्मल्याः ॥ चिरबिल्वः, नक्तमालः, करजः, करञ्जकः, इति ४ करञ्जवृक्षस्य ॥ - प्रकीर्यः, पूतिकरजः, पूतिकः, कलिमारकः, इति ४ पूँतिकस्य ॥ षड्ग्रन्थः, मर्कटी, अङ्गारवहरी, एते ३ करञ्जभेदाः ॥ - रोही, रोहितकः, प्लीहशत्रुः, दाडिमपुष्पकः, इति ४ रोहितकस्य ॥ गायत्री, बालतनयः, खदिरः, दन्तधावनः, इति ४ खंदिरस्य ॥ अरिमेदः, विट्खदिरः, इति २ दुर्गन्धिखदिरस्य ॥ - सिते शुक्लसारे खदिरे कदरः, सोमवल्कः, इति २ ॥ व्याघ्रपुच्छः, गन्धर्वहस्तकः, एरण्डः उरुबूकः, रुचकः, चित्रकः, चक्षुः, पञ्चाङ्गुलः, मण्डः, वर्धमानः, व्यडम्बकः, इति ११ एरण्डस्य ॥– या अल्पा खल्पाकारा शमी स शंमीर इति ॥ - For Private and Personal Use Only १ हिंगणबेट. २ भूर्जपृ. ३ सांबरी. ४ सांवरीचा डिंक. ५ काळी सांबरी. ६ करंजवृक्ष. ७ घाणेरा करंज, कांटे करंज. ८ रक्तरोहिडा ९ खैर. १० लहान शमी.
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy