SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५२ Acharya Shri Kailassagarsuri Gyanmandir अमरको पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे रक्तोत्पलं कोकनदं नालो नालमथास्त्रियाम् मृणालं बिसमजादिकदम्बे षण्डमस्त्रियाम् करहाटः शिफाकन्दः किंजल्कः केसरोऽस्त्रियाम् संवर्तिका नवदलं बीजकोशो वराटकः १४. काण्डसमाप्तिः उक्तं स्वर्व्योमदिक्कालधीशब्दादि सनाव्यकम् पातालभोगि नरकं वारि चैषां च संगतम् इत्यमरसिंहकृतौ नामलिङ्गानुशासने स्वरादिकाण्डः प्रथमः साङ्ग एव समर्थितः [ १३. वारिवर्ग : ५४९ ५५० ५५१ ५५२ ५५३ , - 'वा पुंसि' इति षोडशभिरपि संबध्यते ॥ - तत्र पुण्डरीकम्, सिताम्भोजम्, इति २ सितकमलस्य ॥ - रक्तसरोरुहम्, रक्तोत्पलम्, कोकनदम् इति ३ रक्तकमलस्य ॥ - नालः, नालम्, इति २ पद्मादिदण्डस्य ॥ बिसम्, इति २ मृणालस्य । अस्त्रियां क्लीब- पुंसोः ॥ - अब्जादिकदम्बे कमलादीनां समूहे षण्डमिति ॥ - करहाट, शिफाकन्दः, इति २ पद्ममूलस्य ॥ -- किंजल्कः, केसरः, इति २ केसरस्य ॥ - संवर्तिका, नवदलम् इति २ पद्मादीनां नवपत्रस्य ॥ - बीजकोशः, वराटकः, इति २ बीजकोशस्य ॥ " For Private and Personal Use Only ५५४ ५५५ ५५६ ५५७ - मृणालम्, ५५४-५५७. मया खर्-व्योम - दिक्-काल- धी-शब्द-नाट्य- पातालभोगि-नरकवारि उक्तम् । शब्दादीति रसगन्धादिग्रहणार्थमादिशब्दः । एषां स्वर्गादीनां संगतं संबन्धवशात्प्राप्तं देवासुरमेघादिकं तच्चोक्तम् ॥ एवममरसिंहस्य कृतौ नाम्नां लिङ्गानां चानुशासने स्वरादिशब्दानां काण्डः समूहः साङ्गोऽङ्गोपाङ्गसहितः प्रथमः समर्थितः कथितः ॥ श्रीमत्यमरविवेके महेश्वरेण विरचिते एव प्रथमः स्वरादिकाण्डः समाप्तः । इत्यमरकोशस्य प्रथमं काण्डं समाप्तम् ॥
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy