SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमं काण्डम् पङ्कयः ५२५-५४८ ] द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ देविकायां सरय्वां च भवे दाविकसारवौ सौगन्धिकं तु कहारं हलकं रक्तसंध्यकम् स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च इन्दीवरं च नीलेऽस्मिन्सिते कुमुद कैरवे शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका जलनीली तु शेवालं शैवलोऽथ कुमुद्वती कुमुदिन्यां नलिन्यां तु बिसिनी पद्मिनीमुखाः वा पुंसि पद्मं नलिन मरविन्दं महोत्पलम् सहस्रपत्रं कमलं शतपत्रं कुशेशयम् पङ्केरुहं तामरसं सारसं सरसीरुहम् बिसप्रसूनराजीव पुष्कराम्भोरुहाणि च ५१ For Private and Personal Use Only ५३७ ५३८ ५३९ ५४० ५४१ ५४२ ५४३ ५४४ ५४५ ५४६ ५४७ ५४८ " , इति २ नदीमेलकस्य नदीसंगमस्य ॥ पयसो जलस्य पदव्यां निर्गमनमार्गे मकरमुखादिरूपा प्रणाली इति । तद्वयोः । पुंसि तु 'प्रणालः ' ॥ - - उत्तरौ दाविकसारवां त्रिषु । देविकायां नद्यां भवं दाविकम् । सरय्वां नद्यां भवं सारवम् ॥ - सौगन्धिकम्, कह्रारम्, इति २ संध्याविकासिनः शुक्लसरोजस्य ॥-हलकम, रक्तसंध्यम, इति २ रक्तकारस्य ॥ उत्पलम्, कुवलयम् इति २ कुमुदस्य ॥ नीलाम्बुजन्म, इन्दीवरम् इति २ नीलेऽस्मिन्नुत्पले ॥ कुमु दम्, कैरवम्, इति २ सिते शुभ्रेऽस्मिन्नुत्पले ॥ - एषामुत्पलविशेषाणां कन्दः शालूकं स्यात् ॥ - वारिपर्णी, कुम्भिका, इति २ जलकुम्भिकायाः ॥नीली, शेवालम्, शैवल:, इति ३ शैवालस्य ॥ -- कुमुद्वती, कुमुदिनी, इति २ कुमुदिन्याः ॥ - नलिनी, बिसिनी, पद्मिनी, इति ३ कमलिन्याः । ' मुख'शब्दात् सरोजिनीप्रभृतयः ॥ - पद्मम्, नलिनम्, अरविन्दम्, महोत्पलम्, सहस्रपत्रम्, कमलम्, शतपत्रम् कुशेशयम्, पङ्केरुहम्, तामरसम्, सारसम्, सरसीरुहम्, बिसप्रसूनम्, राजीवम्, पुष्करम्, अम्भोरुहम्, इति १६ कमलस्य - जल ·
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy