SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोष [१०. नाट्यवर्गः ३९० ३९१ ३९२ ३९३ अम्बा माताऽथ बाला स्याद्वासूरार्यस्तु मारिषः अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे हण्डे हल्ले हलाहानं नीचां चेटीं सखी प्रति अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयो समौ निवृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिाकसात्त्विके शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा कृपा दयाऽनुकम्पा स्यादनुक्रोशोऽप्यथो हसः हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम् विस्मयोऽद्भुतमाश्चर्य चित्रमप्यथ भैरवम् ३९४ ३९५ m ३९७ ३९८ in ४०० श्यालो राष्ट्रिय उच्यते ॥-अम्बा, माता, इति २ मातायाः॥-बाला, वासूः, इति २ कुमार्याः ॥--आर्यः, मारिषः, इति २ आर्यस्य ॥-या ज्येष्ठा भगिनी सा अत्तिका ॥-निष्ठा, निर्वहणम् , इति २ समे इति समानार्थे, न तु समानलिङ्गे ॥-नीचां प्रत्याहाने हण्डे इति । चेटी प्रति आह्वाने हले इति । सखी प्रत्याहाने हला इति । अमूनि त्रीण्यव्ययानि ॥-अङ्गहारः, अङ्गविक्षेपः, इति २ नृत्यविशेषस्य ॥-व्यजकः, अभिनयः, इति २ हस्तादिमिर्मनोगतार्थप्रकाशनस्य ॥-अङ्गेन निवृत्ते निष्पने कर्मणि आह्निकम् । सत्त्वे. नान्तःकरणेन निवृत्ते सात्त्विकम् । इमे द्वे अपि त्रिषु ॥-शृङ्गारः, वीरः, करुणः, अद्भुतः, हास्यः, भयानकः, बीभत्सः, रौद्रः, एते ८ रसा मेयाः ॥शृङ्गारः, शुचिः, उज्वलः, इति ३ मारस्य ॥-उत्साहवर्धनः, वीरः, इति २ वीरस्य ॥-कारुण्यम् , करुणा, घृणा, कृपा, दया, अनुकम्पा, अनुक्रोशः, इति ७ करुणस्य ॥ हसः, हासः, हास्यम्, इति ३ हासस्य ॥-बीभत्सम् , विकृतम्, इति २ बीभत्सस्य । इदं द्वयं रसे पुंसि । तद्वति त्रिषु ॥-विस्मयः, अद्भुतम, आचर्यम् , चित्रम्, इति ४ भद्भुतस्य ॥-भैरवम्, शरणम् , For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy