SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमं काण्डम् पङ्क्तयः ३६७-३८९ मर्दः पणवोsन्ये च नर्तकीलासिके समे विलम्बितं दूतं मध्यं तत्त्वमोघो घनं क्रमात् तालः कालक्रियामानं लयः साम्यमथास्त्रियाम् ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने तौर्यत्रिकं नृत्यगीतवाद्यं नाव्यमिदं त्रयम् कुंसश्च भ्रुकुंसश्च कुंसश्चेति नर्तकः स्त्रीवेषधारी पुरुषो नाट्योत्तौ गणिकाज्जुका भगिनीपतिरावुत्तो भावो विद्वानथावुकः जनको युवराजस्तु कुमारो भर्तृदारकः राजा भट्टारको देवस्तत्सुता भर्तृदारिका देवी कृताभिषेकायामितरासु तु भट्टिनी अब्रह्मण्यमवध्योक्ती राजश्यालस्तु राष्ट्रियः ३७ For Private and Personal Use Only ३७८ ३७९ ३८० ३८१ ३८२ ३८३ ३८४ ३८५ ३८६ ३८७ ३८८ ३८९ मर्दलः, पणवः, एते वाद्यप्रभेदा वाद्यविशेषा ज्ञेयाः । अन्ये च हुडुकगोमुखादयः सन्ति ॥ - नर्तकी, लासिका, इति २ नर्तक्याः ॥ करचरणादिभिर्यद्विलम्बितं नृत्यादिकं तत् तत्त्वमित्युच्यते ॥ —- यद्भुतं शीघ्रं नृत्यादिकं तत् ओघ इत्युच्यते ॥यन्मध्यं न विलम्बितं नापि द्रुतं तत् धनमित्युच्यते ॥ -- कालक्रिययोर्मानं नियमहेतुः ताल इत्युच्यते ॥ - गीतवाद्यपादादिन्यासानां क्रियाकालयोः साम्यं लय इत्युच्यते ॥ - - ताण्डवम्, नटनम्, नाट्यम्, लास्यम्, नृत्यम्, नर्तनम् इति ६ नृत्यस्य ॥ - -नृत्य-गीत- वाद्यमितीदं त्रयं मिलित्वा तौर्यत्रिकमिति चोच्यते ॥यः स्त्रीवेषधारी नर्तकः पुरुषस्तत्र भ्रकुंसः, भ्रुकुंसः, भ्रूकुंसः इति ३ नामानि ॥ नाट्योक्तौ नाट्यप्रकरणे, नाट्यादन्यत्र प्रयोगो नास्तीत्यर्थः । या गणिका सा अजुका ॥ - भगिन्याः पतिः आवृत्त इत्युच्यते ॥ - यो विद्वान् स भाव इत्युच्यते ॥ - जनकस्तु आवुक इत्युच्यते ॥ - युवराजस्तु कुमारः, भर्तृदारकः, इति २ ॥ - भट्टारकः, देवः, इति २ राज्ञः ॥ - तस्य राज्ञः सुता भर्तृदारिका ॥कृतोऽभिषेको यस्यास्तस्यां राज्ञ्यां देवीति ॥ - इतरासु राज्ञीषु भट्टिनीति ॥ - अवध्यस्य वधानस्य ब्राह्मणादेरुक्तौ दोषोक्तिकरणे अब्रह्मण्यमिति ॥ राज्ञः ,
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy