SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिरोहणीटिप्पणीसहितः। यांश्च शोचसि गताः किमिमे मे स्नेहला इति धिया विधुरात्मा । तैर्भवेषु निहतस्त्वमनन्तेष्वेव तेऽपि निहता भवता च ॥ २७ ॥ त्रातुं न शक्या भवदुःखतो ये त्वया न ये त्वामपि पातुमीशाः । ममत्वमेतेषु दधद् मुधात्मन् पदे पदे किं शुचमेषि मूढ ॥ २८ ॥ सचेतनाः पुंगलपिण्डजीवा अर्थाः परे चाणुमया द्वैयेऽपि । दधत्यनन्तान् परिणामभावान् तत्तेषु कस्त्वहति रागरोषौ ॥ २९ ॥ स्त्रीममत्वमोचनाधिकारः । मुह्यसि प्रणयचारुगिरांसु प्रीतितः प्रणयिनीषु कृतिन् किं । किं न वेत्सि पततां भववाधौ ता नृणां खलु शिला गलबद्धाः ॥३०॥ चर्मास्थिमज्जात्रवसास्रमांसामध्याद्यशुच्यस्थिरपुद्गलानाम् । स्त्रीदेहपिण्डाकृतिसंस्थितेषु स्कन्धेषु किं पश्यसि रम्यमात्मन् ॥ ३१ ॥ विलोक्य दूरस्थममेध्यमल्पं जुगुप्ससे मोटितनासिकस्त्वं । भृतेषु तेनैव विमूढ योषावपुष्षु तत् किं कुरुषेऽभिलाषम् ॥ ३२ ॥ अमेध्यमांसास्रवसात्मकानि नारीशरीराणि निषेवमाणाः । इहाप्यपत्यद्रविणादिचिन्तातापान् परत्र प्रति दुर्गतीश्च ॥ ३३ ॥ अंगेषु येषु परिमुह्यसि कामिनीनां चेतः प्रसीद विश च क्षणमन्तरेषां । सम्यक् समीक्ष्य विरमाशुचिपिण्डकेभ्य ___ स्तेभ्यश्च शुच्यशुचिवस्तुविचारमिच्छत् ॥ ३४ ॥ विमुह्यसि स्मेरदृशः सुमुख्या मुखेक्षणादीन्यभिवीक्षमाणः । समीक्षसे नो नरकेषु तेषु मोहोद्भवा भाविकदर्थनास्ताः ॥ ३५ ॥ अमेध्यभस्रा बहुरन्ध्रनिर्यन्मलाविलोद्यत्कृमिजालकीर्णा । १ पुद्गलपिण्ड: शरीरं तदधिष्ठिता जीवाः प्राणिनः । २ पदार्थाः । ३ सचेतना अचेतनाश्च पदार्थाः। ४ कोऽन्वर्हति इति पाठान्तरम् । ५ गिरासु इति आबन्तं सप्तमीबहुवचनान्तं ज्ञेयं । किं किमु । ६ अत्र खलुशब्दो हेत्वर्थे । अव्ययानामनेकार्थत्वात् । ७ स्मेरे विकसिते दृशो (लोचने) यस्याः सा ! तस्याः। ८ पीडाः । For Private And Personal Use Only
SR No.020017
Book TitleAdhyatma Kalpadrum
Original Sutra AuthorN/A
AuthorDhanvijaygani, Shivram Tanba Dobe
PublisherNirnaysagar Press
Publication Year1906
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy